This page has been fully proofread once and needs a second look.

१०८
 
दर्श्रीविवेकचूडामणिः सव्याख्यः
 
दयं
प्यस्तु वेदान्ता एव नयः शास्त्रं तस्य अन्तः पारः तं द्रष्टुं शीलमस्यास्तीति

दर्शी वेदान्तनयान्तदर्शी । सोपि अभिमानत्यागं विना न मुक्तिमर्हति ।

अतः निरंतरनिदिध्यासनेन विपरीतभावना त्यक्तव्येति भावः ॥१६४॥
 

 
तस्याः त्यागे विचारं सुलभोपायमाह । छायेति ।

 
छायाशरीरे प्रतिबिंबगात्रे
 

यत्स्वप्नदेहे हृदिकल्पितांगे ।

यथात्मबुद्धिस्तव नास्ति काचित्

जीवच्छरीरे च तथैव मास्तु ॥ १६५ ॥
 

 
यत् यस्मात्कारणात् छायाशरीरे शरीरच्छायायां प्रतिबिंवगात्रे

दर्पणादौ प्रतीयमानगात्रप्रतिबिंबे स्वप्नदेहे स्वप्नावस्थायां दृश्यमानशरीरे

हृदि मनसि कल्पितांगे कल्पितं च तत् अंगं च कल्पितांगं तस्मिन् जाग्रदव-

स्थायां मनःकल्पितदेहे यथा तव काचित् आत्मबुद्धिः अहमितिमतिः नास्ति

न विद्यते । तथैव जीवच्छरीरे च प्राणान्धरद्यच्छरीरं तस्मिन्नपि मास्तु ।

द्रष्टुः स्वस्माद् भिन्नत्वेन प्रतीतेः सर्वत्र अविशिष्टत्वात् इति भावः ॥ १६५॥

 
अन्नमय कोशमुपसंजिहीर्षुः सर्वानर्थकरी देहात्मधीस्त्याज्येत्याह ।
 

देहात्मधीरिति
 

 

 
देहात्मधीरेव नृणामसद्धियां
 

जन्मादिदुःखप्रभवस्य बीजं ।

यतस्ततस्त्वं जहि तां प्रयत्नात्
 

त्यक्ते तु चित्ते न पुनर्भवाशा ॥१६६॥
 

 
यतः यस्मात् असत्सु ब्रह्मभिन्नेष्वनात्मसु धीर्येषां ते असद्धियः तेषां

नृणां मनुजानां देहात्मधीरेव देह एवात्मा इति धीरेव जन्मादिदुःखप्रभवस्य

जन्म उत्पत्तिरादिः येषां मरणादीनां तानि जन्मादीनि तैर्यद्दुःखं तस्य

प्रभवः उत्पत्तिः तस्याः बीजं कारणं शरीरगतत्वात् जन्ममरणादेः।

तदेवाहमिति जानानस्य तत्सर्वं स्वकीयमेवेति ज्ञानात् दुःखं दुष्परिहरमिति

भावः । ततः सर्वदुःखहेतुत्वात् तां देहात्मधियं प्रयत्नात् श्रवणमनन-

निदिध्यासनरूप- शास्त्रीयप्रयत्नात् जहि जहीहीत्यर्थः । नाशयेति वा ।