This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
?? ""
 
सम्यग्ज्ञानवान् स्वात्मानं त्रिविधपरिच्छेदशून्यं मनुते "यत्र नान्यत्पश्यति

नान्यच्छृणोति नान्यद्विजानाति स भूमा ' " "यत्र त्वस्य सर्वमात्मैवाभूत्

तत्केन कं पश्येत् " इति श्रुतेः । तादृशस्य सदात्मनि सदा सर्वदापि आत्मनि

स्वविषये ब्रह्माहमित्येव मतिः अनुभव इत्यर्थ: ॥१६२॥
 
"
 
तस्मात्
 

 
तस्मात्
 
अत्रात्मबुद्धिधिं त्यज मूढबुद्धे त्वङ्मांसमेदोस्थिपुरीषराशौ ।

सर्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शान्तितिं परमां भजस्व ॥ १६३॥
 
१०७
 
(6
 
37 (6
 

 
मुढबुद्धे विवेचनरहितान्तःकरण, यद्वा मूढैढैः बुद्धे अहंतया ज्ञाते

अत्र त्वङ्मांसमेदोस्थिपुरीषराशौ अत्र स्थूलदेहे आत्मबुद्धि अहमिति

मतिं त्यज विसृज । '"इदं सर्वं यदयमात्मा' '" "सर्वं खल्विदं ब्रह्म "

इतिश्रुत्या सर्वोपादानत्वेन कल्पितसकलाधिष्ठानत्वेन सर्वस्य वस्तुनः वास्त-

विकरूपे निर्विकल्पे विविधकल्पनाशून्ये ब्रह्मणि परमात्मनि इदानीं देहे

वर्तमानां आत्मवृद्धिबुद्धिं अहमिति मतितिं कुरुष्व अहमेव परं ब्रह्मेति जानीहि ।

तत्फलमाह परमां मुक्तिसुखदां शान्तितिं बुध्युपशान्तितिं ब्रह्मसंस्थामिति

यावत् भजस्व प्राप्नुहि । शान्ति निर्वाणपरमांमत्संस्थामधिगच्छतीति

स्मृतेः ॥१६३॥
 

 
देहादावभिमानत्यागं विना केवलशास्त्रजन्यज्ञानान्नमुक्तिरित्याह ।
 

देहेन्द्रियेति ।
 

 
देहेन्द्रियादावसति भ्रमोदितां
 

विद्वानहंतां न जहाति यावत् ।

तावन्न तस्यास्ति विमुक्तिवार्ता-

प्यस्त्वेष वेदान्तनयान्तदर्शी ॥ १६४॥
 

 
विद्वान् विवेचनकुशलः । असति मिथ्याभते देहेन्द्रियादीदौ देहश्च

इन्द्रियाणि च देहेन्द्रियाणि तानि आदीनि यस्य तत् प्राणमनोबुध्यादि
दिं
तस्मिन्, यावत् यावता कालेन भ्रमोदितां भ्रान्तिजनितां अहंतां आत्मबुद्धि
धिं
न जहाति न परित्यजति तावत् तावत्कालपर्यन्तं तस्य पुंसः विमुक्ति-

वार्तापि नास्ति कुतो विमुक्तिरितिभावः । एष पुमान् वेदान्तनयान्त-