This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
?? ""
 
सम्यग्ज्ञानवान् स्वात्मानं त्रिविधपरिच्छेदशून्यं मनुते "यत्र नान्यत्पश्यति
नान्यच्छृणोति नान्यद्विजानाति स भूमा ' यत्र त्वस्य सर्वमात्मैवाभूत्
तत्केन कं पश्येत् " इति श्रुतेः । तादृशस्य सदात्मनि सदा सर्वदापि आत्मनि
स्वविषये ब्रह्माहमित्येव मतिः अनुभव इत्यर्थ: ॥१६२॥
 
"
 
तस्मात्
 
अत्रात्मबुद्धि त्यज मूढबुद्धे त्वङमांसमेदोस्थिपुरीषराशौ ।
सर्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शान्ति परमां भजस्व ॥ १६३॥
 
१०७
 
(6
 
37 (6
 
मुढबुद्धे विवेचनरहितान्तःकरण, यद्वा मूढै बुद्धे अहंतया ज्ञाते
अत्र त्वङ्मांसमेदोस्थिपुरीषराशौ अत्र स्थूलदेहे आत्मबुद्धि अहमिति
मतिं त्यज विसृज । 'इदं सर्वं यदयमात्मा' 'सर्वं खल्विदं ब्रह्म "
इतिश्रुत्या सर्वोपादानत्वेन कल्पितसकलाधिष्ठानत्वेन सर्वस्य वस्तुनः वास्त-
विकरूपे निर्विकल्पे विविधकल्पनाशून्ये ब्रह्मणि परमात्मनि इदानीं देहे
वर्तमानां आत्मवृद्धि अहमिति मति कुरुष्व अहमेव परं ब्रह्मेति जानीहि ।
तत्फलमाह परमां मुक्तिसुखदां शान्ति बुध्युपशान्ति ब्रह्मसंस्थामिति
यावत् भजस्व प्राप्नुहि । शान्ति निर्वाणपरमांमत्संस्थामधिगच्छतीति
स्मृतेः ॥१६३॥
 
देहादावभिमानत्यागं विना केवलशास्त्रजन्यज्ञानान्नमुक्तिरित्याह ।
 
देहेन्द्रियेति ।
 
देहेन्द्रियादावसति भ्रमोदितां
 
विद्वानहंतां न जहाति यावत् ।
तावन्न तस्यास्ति विमुक्तिवार्ता-
प्यस्त्वेष वेदान्तनयान्तदर्शी ॥ १६४॥
 
विद्वान् विवेचनकुशलः । असति मिथ्याभते देहेन्द्रियादी देहश्च
इन्द्रियाणि च देहेन्द्रियाणि तानि आदीनि यस्य तत् प्राणमनोबुध्यादि
तस्मिन्, यावत् यावता कालेन भ्रमोदितां भ्रान्तिजनितां अहंतां आत्मबुद्धि
न जहाति न परित्यजति तावत् तावत्कालपर्यन्तं तस्य पुंसः विमुक्ति-
वार्तापि नास्ति कुतो विमुक्तिरितिभावः । एष पुमान् वेदान्तनयान्त-