This page has been fully proofread once and needs a second look.

१०६
 
श्रीविवेकचडामणिः सव्याख्यः
 
शल्यराशिः मांसलिप्तो मलपूर्णोतिकश्मलः ।

कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ॥ १६०॥
 

 
शल्यानां कीकसानां राशिः यत्र स शल्यराशिः मांसलिप्तः मांसेन लिप्तः

उपदिग्धः मलपूर्णः मलेन पुरीषेण पूर्ण: दूषिका-सिंघाण-पिंजूषादिभिः

सहितश्च । अत एवातिकश्मलः अत्यंतं कश्मलः अतिकश्मलः । स्वेद-

दुर्गंधादिभूयिष्ठतया बह्वशुद्धः अयं देहः एतद्विलक्षणः निर्मल: स्वयमात्मा

कथं भवेत् इत्यन्वयः । अनुमानं तु पूर्वं दर्शितम् ॥ १६० ॥
 

 
एवंविवेकस्य फलमाह ।
 
त्वगिति ।
 
त्व

 
त्वङ्
मांसमेदोस्थिपुरीषराशा वहमति-वहंमतिं मूढजनः करोति ।

विलक्षणं वेत्ति विचारशीलो निजस्वरूपं परमार्थभूतम् ॥ १६१॥
 

 
मूढश्चासौ जनश्च मूढजन: विचारहीनः भ्रान्तबुद्धिः मनुष्यः

त्वङ्मांसमेदोस्थिपुरीषराशौ देहे अहंमतितिं अहमितितादात्म्यबुद्धिं करोति

बध्नाति । विचारशीलः पुमांस्तु विलक्षणं देहविलक्षणं परमार्थभूतं

कालत्रयेपि बाधायोग्यं निजस्वरूपं वास्तविकं स्वयाथात्म्यं परमात्मानमेव

स्वात्मानं जानाति ॥ १६१ ॥
 

 
तत्रापि
 
देो

 
देहो
हमित्येव जडस्य बुद्धिः
 

देहे च जीवे विदुषस्त्वहंधीः ।

विवेकविज्ञानवतो महात्मनो
 

ब्रह्माहमित्येव मतिः सदात्मनः ॥ १६२ ॥
 

 
जडस्य पामरस्य अहं देहः एव नतद्व्यतिरिक्तः कश्चित् इति

बुद्धिः । विदुषस्तु शास्त्रजन्यपरोक्षज्ञानवतः देहे च जीवे च अहंधीः

लौकिकव्यवहारेषु देहे वैदिके स्वर्गार्थयागादिकरणार्थं देहव्यतिरिक्ते जीवे

अहंधीः। विवेकविज्ञानवतः विवेकाद्विज्ञानं विवेकविज्ञानं आत्मानात्म-

विवेचनात् आत्मन्यनात्मप्रविलापनेन जातं यद्विज्ञानं साक्षात्कारः तदस्या-

स्तीति तद्वान् तस्य महान् परिच्छेदत्रयशून्यः आत्मा यस्य सः महात्मा ।

पूर्वं परिच्छिन्नेषु अनात्मसु कोशेषु आत्मत्वधिया अल्प आसीत् इदानीं तु