This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
पाणिपादादिमान्देहो नात्मा व्यंगेपि जीवनात् ।

तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ॥ १५८॥
 

 
पाणी च पादौ च तेषां समाहार: पाणिपादं तदादि यस्येतरस्य

पक्षकुक्ष्याद्यवयवसमुदायस्य तदस्यास्तीतितद्वान् पाणिपादादिमान् । देहो

नात्मा व्यंगेपि पाणिपादादिरहितेपि जीवनात् आत्मकार्यस्य प्राणधारणस्य

सत्वात् । जीवंति हि लोके कुणिखंजादयः । दारुचर्मनिर्मित-पाणि-

पादादिना आदानगमनादिकार्यं कुर्वन्तीति तत्तच्छक्तेः पाणिपादादिशक्तेः

अनाशाच्च । पाण्यादिमान् देहो नात्मा इत्यन्वयः । उक्तं चकठोपनिषदि
'

"
न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवंति यस्मिन्नेता-

वुपाश्रितौ " इति सर्वशक्त्याश्रयत्वमात्मनः । न नियम्यः आत्मा,

नियामकः सर्वेषां देहेन्द्रियादीनां । देहस्तु नियम्यः जडत्वात् नियमकत्वा-

भाववांश्च । ततः सावयवत्वात् नियम्यत्वाच्च निरवयवः नियामकः

आत्मा नेति समुदायार्थः ॥ १५८॥
 
((
 
१०५
 

 
देहस्य आत्मभिन्नत्वमुपपाद्य आत्मनः तद्विलक्षणत्वं विवेक-
दार्या

दार्ढ्
योपदिशति । देहेति ।
 

 
देहतद्धर्म-तत्कर्म -तदवस्थादि- साक्षिणः ।
 

सत एवं स्वतस्सिद्धं तद्वैलक्षण्यमात्मनः ॥ १५९ ॥
 

 
तस्य देहस्य धर्माः रूपस्पर्शगन्धादयः, तत्कर्माणि हिताहितप्राप्ति-

परिहारार्थक्रियाः गमनादय:, तदवस्था: उपवेशनस्थानशयनादयः आदि-

पदेन स्थौल्यकार्श्यदिविकाराः । देहश्च तद्धर्माश्च तत्कर्माणि च तदवस्थादि

च देहतद्धर्म-तत्कर्मतदवस्थादीनि तेषां साक्षाद्रष्टा । तस्य सत एव

सर्वावस्थासु बाल्यादिषु भिन्नभिन्नकालिकास्वपि अविकारितया काल-

त्रयेप्यवाबाध्यतया वर्तमानस्यैव आत्मनः तद्वैलक्षण्यं तस्माद्वैलक्षण्यं तद्वैलक्षण्यं

देहादिविलक्षणत्वं स्वतः साक्षित्वादेव हेत्वंतरं विनैव सिद्धं निश्चितम्

इत्यर्थः । आत्मा देहादिविलक्षणः तत्साक्षित्वात् यन्नैवं तन्नैवं यथा

देहादि ॥१५९॥
 

 
एवं देहस्य अनित्यत्वात् दृश्यत्वात् च अनात्मत्वमुपपादितं इदानीं

अशुद्धत्वेन तदुपपादयति । शल्येति ।
 
F