2023-02-22 15:48:08 by Vasant
This page has been fully proofread once and needs a second look.
ब्रह्मनिष्ठं" "अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान्ह्यतर्क्सय-मणुप्रमाणात्"
इत्यादिश्रुतिभ्यः तादृशादेव गुरोः संशयभावनादि-विरहित-शुद्धात्म-
बोधस्य संभवात् । युक्तं ह्येतत्, लोकेप्यस्माभिरदृष्टो मार्ग: दृष्टतन्मार्गैः
किल बोधनीय:, स्वयमेव कथंचिल्लब्धोपि, संशय: दृष्टतत्त्वैः किल
निरसनीयो भवति । तत्र शुकजनक-संवाद : प्रमाणम् । जन्मांतरकृत-
सुकृत - परिपाकवशात् स्वयं ज्ञातज्ञेयोपि पित्रानुशिष्टोपि महानुभविनो
जनकस्य वैदेहस्य वचनात्किल ब्रह्मणि विश्रान्तमानसोऽभूच्छुक इति
हि वासिष्ठादौ स्मर्यंते । तथाच सद्रूपब्रह्माभिन्नत्वात् सद्रूपत्वं देशिकस्य ।
अत एव महत्वं विवेचितकोशपंचकत्वात् अपरिच्छिन्नत्वम् । यद्वा शास्त्रोक्त-
समस्त- सद्गुणमण्डितत्वं, वक्ष्यते हि "श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्म-
विदुत्तमः । अहेतुकदयासिंधुः बंधुररानमतां सताम् ॥ ब्रह्मण्युपरतश्शन्तो
निरिन्धन इवानल:" इत्यादिगुणजातम् । शिष्येभ्यो ज्ञानं दिशतीति
देशिकः, तं समुपेत्य-यथाविधि उपसद्य तेन गुरुणा उपदिष्टो योर्थः ब्रह्मरूपः
तत्प्राप्तिप्रकाररूपश्च, तत्रैव सम्यगाहितः आत्मा अन्तःकरणं येन तादृशस्सन्
विमुक्त्यै प्रयतेत इत्यनेनमुक्तीच्छां विना तत्र प्रयत्नासंभवात् मुमुक्षुत्वं
ध्वनितम् ॥ उपदिष्टार्थसमाहितात्मेत्यनेन सततं ब्रह्मसमाहितमानसत्वस्य
सर्वकर्मसंन्यासं विनाऽसंभवात् विवेकिना विरक्तेन स्वरूपतः सकल-
कर्मसंन्यासपुरस्सरं ब्रह्मनिष्ठं गुरुमुपसद्य सर्वदा ब्रह्मविचारः कर्तव्य
इत्युक्तं भवति ॥
उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ ।
योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥ ९॥
संग्रहेणोक्तमर्थं सप्तभि: श्लोकर्विवृणोति । तत्र मुक्त्यर्थं क्रिय-
माणप्रयत्नस्य सम्यग्दर्शननिष्ठान्तत्वात्, मोक्षसाक्षात्साधनं सम्यग्दर्शन-
निष्ठां तत्र मुख्यहेतुं परवैराग्यापरपर्यायं योगारूढत्वं चाह अनेन श्लोकेन ॥
"यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसंकल्पसंन्यासीयोगा-
रूढस्तदोच्यते " ॥ इति भगवद्वचनात् परवैराग्यपुरस्सर- सम्यग्दर्शन-
निष्ठैव संसाराब्धिपतितात्मोद्धरणे हेतुरिति भावः । "क्लेशादिपंचक-
तरंगयुतं भ्रमाढ्यं दारात्मजा-प्तधन-बन्धुझषाभियुक्तम् । और्वानलाभ-
निजरोष - मनंगजालं, संसारसागरमतीत्य हरिं व्रजामि " ॥ संसारसागर्-र-

निजरोष - मनंगजालं, संसारसागरमतीत्य हरिं व्रजामि "