This page has not been fully proofread.

१०४
 
श्रीविवेकचूडामणिः सव्याख्यः
 
इतिश्रुतिः । न केवलमुत्पत्या अन्नविकारत्वं उत्पत्यनंतरमपि अन्नेन
जीवति घृतप्राणो भवति । तद्विहीनः विनश्यति म्रियते उत्क्रान्तप्राणो
भवतीत्यर्थः । अतः अन्वयव्यतिरेकाभ्यां अन्नाधीनस्थितिकत्वं तस्य ।
हि निश्चयः । न केवलं पराधीनोत्पत्तिस्थितिकत्वं अनात्मत्वे हेतुः
अशुद्धत्वं चेत्याह त्वगिति । त्वक्चर्म-मांसरुधिरास्थि - पुरीषराशिः स्पष्टम् ।
अयं देहः नित्यशुद्धः "अजो नित्यः " "शुद्धमपापविद्धं " इत्यादिश्रुति-
बोधित-नित्यशुद्धत्वादि-धर्मक: स्वयमात्मा भवितुं नार्हति । देहो नात्मा
अनित्यत्वात् अशुद्धत्वात् केशादिवत् ॥ १५६॥
 
"
 
अनित्यत्वमुपपादयति स्पष्टं पूर्वमिति ।
 
((
 
पूर्वं जनेरपि मृतेरथ नायमस्ति
जातक्षणक्षण-गुणोनियतस्वभावः ।
नैको जडश्च घटवत्परिदृश्यमानः
 
स्वात्मा कथं भवति भावविकारवेत्ता ॥ १५७॥
 
आदावंते च यन्नास्ति वर्तमानेपि तत्तथा
 
"
 
जनेः उत्पत्तेः पूर्वं मरणस्य अथ अनन्तरं अपिरुभयत्र संबध्यते
इति माण्डूक्यकारिकया
अनिर्वचनीयः दृष्टनष्टस्वरूपतया इत्यर्थः । तदेवोपपादयति जातक्षण-
क्षणगुण इति । क्षणे क्षणे गुण: क्षणक्षणगुणः जातः क्षणक्षणगुणः यस्य सः
तथा प्रतिक्षणं उपचयापचयरूपधर्मवानिति भावः । वायुसंयोगादिना
आध्यात्मिकवायुसंचारेण अन्तःशोषादिना च । अत एवहि पुनःपुनराहरणं
जलपानादिकं च । अत एव अनियतस्वभाव: नियतः स्वभावः यस्य स
नियतस्वभावः न नियतस्वभावः अनियतस्वभावः एकरूपतया न व्यवस्थित
इत्यर्थः । नैकः एकस्मिन्जन्मन्यपि वाल्ययौवनादिषु भिन्नत्वेन ज्ञायमान-
श्चेत्यर्थ: । घटवत्परिदृश्यमानः । अत एव जडश्च पराधीनस्फूर्तिकः ।
एतादृशदेहः भावविकारवेत्ता इदानीं कृशः इदानीं स्थूल: इत्यादिनाभाव-
विकारवेत्ता ज्ञाता स्वात्मा कथं भवति स्वगतधर्मस्य स्वेनाज्ञायमानत्वात्,
न हि घट एव घटं पश्यति, अतो देहो नात्मा दृश्यत्वात् घटवदित्युक्तं भवति ।
आत्मा तु नित्य: निर्गुण: एकरूपः एकः द्रष्टा च ॥ १५७॥
 
तत्रैव हेत्वंतरमाह । पाणीति ।