This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
विविच्य तत्र प्रविलाप्य सर्वं
 
तदात्मना तिष्ठति यस्स मुक्तः ॥१५५॥
 
मुंजात् मुंजं तृणविशेषः तस्मात् । इषीकामिव तन्मध्यवर्ती - मृणाल-
तंतुनिभ सूक्ष्मांश: इषीका तामिव । सा सूक्ष्मा परितस्तृणावृता तस्याः
पृथक्करणे अत्यंतमैकाग्रयं त्रोटनादिकं विना संपूर्णेषीकाग्रहणे यत्नविशेषश्च
अपेक्ष्यते तद्वत् " एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्रच्या
बुध्या सूक्ष्मया सूक्ष्मदशिभिः" इतिश्रुत्या विहितकर्मभिः उपासनया च
संस्कृतया बुध्या दृश्यवर्गात् अनात्मसमूहात् । प्रत्यंचं प्रातिलोम्येन
अंचतीति प्रत्यः असज्जड-दुःखाहंकारादिविलक्षणत्वेन सच्चित्सुख-रूपतया
प्रकाशत इत्यर्थः । तं असंगं अद्वितीयतया सर्वसंगरहितं । अक्रियं
अपरिच्छिन्नतया क्रियारहितं । आत्मानं विविच्य पृथक्कृत्य तत्र
प्रत्यगात्मनि सर्व दृश्यवर्ग प्रविलाप्य प्रकर्षण विलाप्य अपुनस्स्मरणं
प्रत्यगात्मव्यतिरेकेण किमपि नास्तीति विनिश्चित्य । तदात्मना अधिष्ठान-
भूत-प्रत्यगात्मना यस्तिष्ठति सर्वदा वर्तते स मुक्तः सकलविधात् बन्धात्
इति, ब्रह्मात्मना संस्थितिः आत्मानात्मविवेकेन आत्मनि समारोपितानात्म-
बाधेन लब्धव्या इति प्रपंचप्रविलापनं विवेकिना कर्तव्यमित्युक्तं भवति
॥१५५॥
 
१०३
 
इदानीं पंचसु कोशषु अन्तिममपि प्रथमं स्थूलतया विवेका
"अस्माल्लोकात्प्रेत्य, एतमन्नमयमात्मानमुपसंक्रामति" इति श्रुत्युक्तक्रमेण
सर्वान्तरमात्मानं ग्राहयितुं विवेचयति देहोयमित्यादिना दशभिः श्लोकैः ।
देहोयमन्नभवनोन्नमयस्तु कोशो
 
ह्यन्नेन जीवति विनश्यति तद्विहीनः ।
त्वक्चर्म-मांसरुधिरास्थि-पुरीष राशिः
 
नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥१५६॥
अन्नाद्भवनमुत्पत्तिर्यस्य स अन्नभवनः मातापितृ-भुक्तान्नविकाराद्धि
अस्योत्पत्तिरिति तथा । अयं देहः परिदृश्यमानः स्थूलदेहः अन्नमयस्तु कोशः,
तुशब्दः इतरव्यावर्तकः । पंचानां कोशानां मध्ये स्थूलदेह एव अन्नमयः
कोश: नेतर इत्यर्थ: । अन्नाद्वै प्रजाः प्रजायन्ते । अथो अन्नेनैवजीवन्ति
 
(6
 
37