This page has not been fully proofread.

१०२
 
श्रीविवेकचूडामणिः सव्याख्यः
 
तृष्णया यः संतापः दुःखं हरतीति हरं तस्य नाशकं । पुंसः पुरुषस्य पातुः
सद्यस्सौख्यप्रदं दर्शनस्नान-पानादिना प्रकर्षेण संतोषदं । परं श्रेष्ठं
प्रतीयत इति पूर्वेणान्वयः ॥ १५२ ॥
 
दान्तिके तदाह । पंचानामपीति ।
 
पंचानामपि कोशानां अपवादे विभात्ययं शुद्धः ।
नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयंज्योतिः ॥ १५३॥
 
पंचानामपि अपिशब्द: कार्येन निषेधार्थ: । कोशानां आवरकानां
अन्नमयाद्यानन्दमयान्तानां श्रुतिदत्त युक्त्या अपवादे निषेधे कृते सति ।
नित्यानन्दैकरसः उत्पत्तिनाशशून्य-दुःखासंभिन्ना-नन्दैकस्वभावः। प्रत्यग्रूपः
सर्वान्तरः स्वयंज्योतिः पराप्रकाश्य: केवलज्ञानस्वरूपः । पर: सर्वोत्कृष्टः
अयमात्मा शुद्धः स्वाभाविकागंतुक-मलासंस्पृष्टः । विभाति विशेषेण भाति
अनात्मासंसृष्टतया भासत इत्यर्थः ॥ १५३॥
 
यत एवं ततः,
 
आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा ।
तेनैवानन्दीभवति स्वं विज्ञाय सच्चिदानन्दम् ॥१५४॥
 
विदुषा शास्त्रजन्यज्ञानवता पुरुषेण । बन्धमुक्तये अध्यासनिवृत्तये ।
आत्मानात्मविवेकः आत्मा च अनात्मानश्च आत्मानात्मनः तेषां विवेकः
 
असंकीर्णतया ज्ञानं । कर्तव्यः यत्नात् संपादनीयम् । तेनैव आत्मानात्म-
विवेचनेनैव स्वं स्वस्वरूपं सच्चिदानन्दं कालत्रयाबाध्यं ज्ञानं आनन्दं
विज्ञाय साक्षात्कृत्य, उक्तं हि द्वितीयश्लोके आत्मानात्मविवेचनं स्वनुभव
इति, आनन्दीभवति आनन्दः अस्यास्तीति आनन्दी निरतिशय-सार्वदिक-
सुखवान्भवतीत्यर्थः ॥ १५४॥
 
विवेचनप्रकारं दृष्टान्तेन बुद्धावारोहयन् ब्रह्मात्मना संस्थितिरूप-
मुक्त्यै विवेचनानन्तरकर्तव्यमाह । मुंजादिति ।
 
मुंजादिषीकामिव दृश्यवर्गात्
प्रत्यंचमात्मान-मसंगमक्रियम् ।