2023-02-26 15:58:04 by Vasant
This page has been fully proofread once and needs a second look.
सारेण विशुद्धा नष्टरागद्वेषादि-सकलविधदोषा बुद्धिः यस्य तस्य विशुद्ध-
बुद्धेः। परमात्मवेदनं अभेदेन परमात्मसाक्षात्कारः । तेनैव परमात्म-
वेदनेनैव संसारसमूलनाशः समूलं नाशः समूलनाशः संसारस्य समूलनाशः
संसारसमूलनाशः । अज्ञानादिदुःखान्तस्य बन्धस्य अत्यन्तमुच्छेद इत्यर्थः
"
"विवेकविज्ञानमहासिने "त्यत्र विवेकजन्यं विज्ञानमित्युक्तम्
'तयोर्विवेकः कथमेतदुच्यता " इति पूर्वं शिष्येण पृष्टं च । पूर्व स्थूलसूक्ष्म-
कारणशरीराणां सामान्यतः कथनेन संगृहीतं तद्विस्तरेण प्रपंचयितुं
समारभते । कोशैरित्यादिना ।
(6
कोशैरन्नमयाद्यैः पंचभिरात्मा न संवृतो भाति ।
निजशक्ति-समुत्पन्नैः शैवलपटलैरिवांबु वापीस्थम् ॥ १५१॥
"सलिल एको द्रष्टा" इत्यादिश्रुतिभिः निर्मलजलवत्स्वच्छस्य आत्मनः
स्फुटतया कुतो न भानमिति शंकायां तत्रापि तदेव जलं दृष्टान्तयन्
स्फुटाभानहेतुमाह कोशैरिति । निजशक्तिसमुत्पन्नैः निजा स्वकीया
स्वस्मिन्कल्पिता अविद्या तया समुत्पन्नैः जातैः अन्नमयाद्यैः वक्ष्यमाणैः
पंचभिः कोशैः असेः कोशवत्स्थितैः आवरकैः आनन्दमयान्तैः । स्वोपलब्धि-
प्रतिबन्धकोपलब्धि-विषयैः संवृतः आवृतः आत्मा न भाति न विविक्ततया
स्फुटं भासते। तत्र दृष्टान्तः निजशक्तिसमुत्पन्नैः जलगत-द्रवत्वधर्म-
समुत्पन्नैः । शैवलपटलै: शैवालपंक्तिभिः । वापीस्थं अंब्विव । यथा
वापीगतं जलं तत एव जातैः शैवालैः संवृतं आच्छादितं न स्फुटतया
भाति तथा इत्यर्थः ॥ १५१ ॥
दृष्टान्ते स्फुटभाने हेतुमाह । तच्
तच्
तृष्णासंतापहरं सद्यस्सौख्य-प्रदं परं पुंसाम् ॥ १५२॥
तत् आवरकं यच्
सलिलं सम्यक् अप्रतिबन्धं प्रतीयते । ततः फलमाह तृष्णासंतापहरं,