This page has been fully proofread once and needs a second look.

नास्त्रैर्न शस्त्रैरनिलेन वह्निना
छेत्तुं न शक्यो नच कर्मकोटिभिः ।
विवेकविज्ञान-महासिना विना
धातुः प्रसादेन शितेन मंजुना ॥ १४९ ॥
 
अयं बन्धः धातुः प्रसादेन परमेश्वरस्यानुग्रहेण शितेन निशितेन
तीक्ष्णेन दृढेनेति यावत् "यमेवैष वृणुते तेन लभ्य" इति श्रुतेः । मंजुना
रमणीयेन, विवेकविज्ञानमहासिना विवेकात् आत्मानात्मविवेचनात् जातं
यद्विज्ञानं ब्रह्मसाक्षात्कारः स एव महांश्चासौ असिश्च खड्गः तेन विना ।
अस्त्रैः आग्नेयादिभिः न छेत्तुं नाशयितुं शक्यः, शस्त्रैः लोहमयैः वाणादिभिः
न छेत्तुं नाशयितुं शक्यः । एवं अनिलेन वायुना न छेत्तुं नाशयितुं शक्यः ।
वह्निना अग्निना न दग्धुं शक्यः । न च कर्मकोटिभिः वेदोक्तैरपि कर्मणां
कोटयः तैरपि न नाशयितुं शक्यः । अज्ञानमूलकत्वात् ज्ञानैकनिवर्त्य
इति भावः । तथाच अस्य बंधस्य विमोक्ष: ईश्वरप्रसादजनित-परमात्मा-
भेद-साक्षात्कारादित्युक्तम् कथं विमोक्ष इत्यस्य प्रश्नस्य उत्तरम् ॥१४९॥
 
नच कर्मकोटिभिरित्युक्तत्वात् कर्मणां वैदिकानां नितरामनपेक्षेति-
शंकायां तेषां बुद्धिशुध्यर्थ अपेक्षां वदन् तां बन्धोच्छेदकविज्ञानहेतुमाह ।
श्रुतीति ।
 
श्रुतिप्रमाणैकमतेस्स्वधर्मनिष्ठा-तयैवात्मविशुद्धिरस्य ।
विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसारसमूलनाशः ॥१५०॥
 
श्रुतिरेव प्रमाणं श्रुतिप्रमाणं " तस्माच्छास्त्रं प्रमाणं ते कार्या-
कार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि " इति
गीतावचनात् । तत्र श्रुतिप्रमाणे एका अनन्यसक्ता मुख्या मतिः बुद्धिः
यस्य सः श्रुतिप्रमाणैकमतिः तस्य, स्वश्रेयसे कर्तव्यकर्मविषये श्रुत्येक-
शरणस्येत्यर्थः । स्वधर्मनिष्ठा स्वस्य धर्मः स्ववर्णस्य आश्रमस्य च विहितः
कर्मकलापः स्वधर्मः। तत्र निष्ठा नितरां स्थिति: ऐदंपर्येण अनुष्ठानं
स्वधर्मनिष्ठा तयैव स्वधर्मे अनन्यासक्ततया स्थित्यैव । अस्य साधकस्य
जीवस्य आत्मविशुद्धिः आत्मनः अन्तःकरणस्य विशेषेण शुद्धिः पापक्षय:
'"ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । कषायपक्तिः कर्माणि ज्ञानं तु