This page has been fully proofread once and needs a second look.

१००
 
श्रीविवेकचूडामणिः सव्याख्यः
नास्त्रैर्न शस्त्रैरनिलेन वह्निना
 

छेत्तुं न शक्यो नच कर्मकोटिभिः ।

विवेकविज्ञान -महासिना विना
 

धातुः प्रसादेन शितेन मंजुना ॥ १४९ ॥
 

 
अयं बन्धः धातुः प्रसादेन परमेश्वरस्यानुग्रहेण शितेन निशितेन
 

तीक्ष्णेन दृढेनेति यावत् '"यमेवैष वृणुते तेन लभ्य " इति श्रुतेः । मंजुना

रमणीयेन, विवेकविज्ञानमहासिना विवेकात् आत्मानात्मविवेचनात् जातं

यद्विज्ञानं ब्रह्मसाक्षात्कारः स एव महांश्चासौ असिश्च खड्गः तेन विना ।

अस्त्रैः आग्नेयादिभिः न छेत्तुं नाशयितुं शक्यः, शस्त्रैः लोहमयैः वाणादिभिः

न छेत्तुं नाशयितुं शक्यः । एवं अनिलेन वायुना न छेत्तुं नाशयितुं शक्यः ।
हि

वह्नि
ना अग्निना न दग्धुं शक्यः । न च कर्मकोटिभिः वेदोक्तैरपि कर्मणां

कोटयः तैरपि न नाशयितुं शक्यः । अज्ञानमूलकत्वात् ज्ञानैकनिवर्त्य

इति भावः । तथाच अस्य बंधस्य विमोक्ष: ईश्वरप्रसादजनित - परमात्मा-

भेद-साक्षात्कारादित्युक्तम् कथं विमोक्ष इत्यस्य प्रश्नस्य उत्तरम् ॥१४९॥
 
(6
 

 
नच कर्मकोटिभिरित्युक्तत्वात् कर्मणां वैदिकानां नितरामनपेक्षेति-

शंकायां तेषां बुद्धिशुध्यर्थ अपेक्षां वदन् तां बन्धोच्छेदकविज्ञानहेतुमाह ।

श्रुतीति ।
 

 
श्रुतिप्रमाणैकमतेस्स्वधर्मनिष्ठा-तयैवात्मविशुद्धिरस्य ।

विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसारसमूलनाशः ॥१५०॥

 
श्रुतिरेव प्रमाणं श्रुतिप्रमाणं " तस्माच्छास्त्रं प्रमाणं ते कार्या-

कार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि " इति

गीतावचनात् । तत्र श्रुतिप्रमाणे एका अनन्यसक्ता मुख्या मतिः बुद्धिः

यस्य सः श्रुतिप्रमाणैकमतिः तस्य, स्वश्रेयसे कर्तव्यकर्मविषये श्रुत्येक-

शरणस्येत्यर्थः । स्वधर्मनिष्ठा स्वस्य धर्मः स्ववर्णस्य आश्रमस्य च विहितः

कर्मकलापः स्वधर्मः। तत्र निष्ठा नितरां स्थिति: ऐदंपर्येण अनुष्ठानं

स्वधर्मनिष्ठा तयैव स्वधर्मे अनन्यासक्ततया स्थित्यैव । अस्य साधकस्य

जीवस्य आत्मविशुद्धिः आत्मनः अन्तःकरणस्य विशेषेण शुद्धिः पापक्षय:

'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । कषायपक्तिः कर्माणि ज्ञानं तु
 
66