2023-02-20 14:42:48 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
९९
243
सुखं दुःखं चेति दुःखत्वेन सुखमपि परिगणितं न्यायशास्त्रे । तच्च दुःखं
नानाकर्म - समुद्भवं नाना बहुविधानि यानि कर्माणि तेभ्यः समुद्भवो यस्य
तत् नानाकर्म-समुद्भवं । अतो हेतोः कर्मणः बहुविधत्वात् फलं स्वयमपि
बहुविधं अनेकप्रकारं । अत्र वृक्षेखगः पक्षी जीवः भोक्ता दुःखरूप - फलानु-
भवीत्यर्थः । तथाच अज्ञानमूलकः दुःखैकफलकः अयं संसारवृक्षः विष-
वृक्षवद्धेय इति भावः । अनेन देहात्मधीरूप-बंधस्य रागद्वेषादिदोषोत्पादन-
द्वारा धर्माधर्म-रूपकर्महेतुतया, तेन च कर्मणा शरीरपरंपरया तत्राहमभि-
मानः इत्येवं रूढमूलतया स्थितिरिति "कथं प्रतिष्ठास्य " इत्यस्य प्रश्नस्य
उत्तरं दत्तं भवति ॥ १४७ ॥
इदानीं कथं विमोक्ष इत्यस्य प्रश्नस्य उत्तरं वक्तुं पूर्वोक्तं बन्धं
सहेतुकं फलमनुवदति । अज्ञानेति ।
अज्ञानमूलोयमनात्मबन्धो
नैसर्गिकोनादिरनन्त ईरितः ।
जन्माप्ययव्याधि-जरादिदुःख-
प्रवाहापं जनयत्यमुष्य ॥ १४८॥
अयं सर्वलोकप्रसिद्धः अनात्मबन्धः शरीराद्यनात्मतादात्म्याभिमानः
"
अज्ञानमूलः अज्ञानं स्वस्वरूपाज्ञानं मूलं हेतुर्यस्य सः । नैसर्गिकः पूर्व-
पूर्वाध्यास-जन्यसंस्कारहेतुक: । अनादि: अनाद्यज्ञानकार्यत्वात् कस्मिन्समये
उत्पन्न इति वक्तुं ज्ञातुं च अशक्यः । अनन्तः ज्ञानं विना अंतः नाश: न
विद्यते अस्येत्यनन्तः। ईरितः अभियुक्तैरिति शेषः । नान्तो न चादि:
इति स्मृतिश्च । एतादृगयं बन्धः । अमुष्य जीवस्य जन्माप्यय-व्याधि
जरादिदुःख-
प्रवाह-तापं जन्म उत्पत्तिः शरीरस्य, अप्यय: मरणं, व्याधिः
रोगः, जरा वार्धक्यं आदिपदेन आधिभौतिकाधिदैविकतापपरिग्रहः ।
तैर्जन्यानि यानि दुःखानि तेषां प्रवाहः परंपरा उपर्युपरि संनिपातः तेन
तापं उद्वेगं जनयति उत्पादयति । पातमितिपाठे स्पष्टोर्थ: प्रवाहात
मति ॥ १४८॥
अस्य परमेश्वरानुग्रहलब्ध-दृढतर- विवेक-जन्य- स्वस्वरूपानुभवमंतरा
केनाप्यनुच्छेद्यत्वमाह। नास्त्रैरिति ।