This page has been fully proofread once and needs a second look.

११६
 
श्रीविवेकचूडामणिः सव्याख्यः
 
तदुक्तं गीतासु " संगात्संजायते कामः कामात्क्रोधोभिजायते । क्रोधाद्भवति

संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशा द्बुद्धिनाश: बुद्धिनाशात्-

प्रणश्यति" इति । अतः ये साधवः सत्पुरुषाः मुमुक्षवः मोक्षकांक्षिणः

ते अत्र विषयारण्यभूमिषु न गच्छन्तु मागमन् । विषयेभ्यः मनो निवर्तयन्तु

मोक्षाय इत्यभिप्रायः । कश्चिद्धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुरमृतत्व-

मिच्छन् इतिश्रुतेरिति भावः ॥ १७८॥
 
"
 

 
नाह्यस्त्यविद्या मनसोतिरिक्तेत्युक्तं उपपादयत् तस्य वतन् तस्य बन्धकत्वं

विशदयति मन: प्रसूत इत्यादिना चतुर्भिः,
 

 
मनः प्रसूते विषयानशेषान् स्थूलात्मना सूक्ष्मतया च भोक्तुः।

शरीरवर्णाश्रम-जातिभेदान् गुणक्रियाहेतु-फलानि नित्यम् ॥१७९॥

 
भोक्तु: जीवस्य जाग्रदवस्थायां स्थूलात्मना तत्तद्देवतानुगृहीत-

तत्तदिन्द्रियजन्यानुभव - -विषयतया स्थूलात्मना, स्वप्नावस्थायां इन्द्रियाणा-

मुपरते: सूक्ष्मतया केवलसाक्षिवेद्यतया च अशेषान् सर्वान् विषयान् भोग्य-

पदार्थान् मनः प्रसूते उत्पादयति । ते विषयाः के इत्याकांक्षायामाह

शरीरवर्णाश्रमजातिभेदान् शरीरं च वर्णाश्च आश्रमाश्च जातयश्च

शरीरवर्णाश्रमजातयः तासां भेदाः प्रकाराः तान् देवतिर्यङ्मनुष्यादि-

शरीराणि ब्राह्मण-क्षत्रिय-वैश्य-शूद्ररूपवर्णान् ब्रह्मचारि-गृहस्थ - -वानप्रस्थ-

संन्यास्याश्रमान् देवमनुष्यादि शरीरं च देवत्वादिजातीश्च प्रसूते ।

सुषुप्त्यादौ मनसोभावे एतेषां भेदानां अभावात् सर्वमिदं मनसा कल्पित -

मेवेति भावः । एवं गुणक्रियाहेतुफलानि गुणाः शब्दादयः क्रियाः उत्क्षेपणा-

दयः हेतवः तत्तत्कार्यनिमित्तोपादानानि । फलानि घटादीनि तत्तत्कार्याणि

एतत्सर्वं मन एव नित्यं सदा प्रसूते । नान्यनिमित्तं इदं मनसोभावे कस्याप्य

भावात् । तदेव सर्वस्य मूलकारणमिति भावः । शरीरेत्यत्र भिद्यन्ते

इति भेदा: इतिव्युत्पत्या कर्मधारयो वा ॥ १७९॥
 

 
असंगचिद्रूप-ममुं विमोह्य देहेन्द्रिय-प्राणगुणैर्निबध्य ।

अहंममेति भ्रमयत्यजस्रं मनस्स्वकृत्येषु फलोपभुक्तिषु ॥१८०॥
 

 
मनः कर्तृ असंगचिद्रूपं असंगा सर्वसंगविधुरा या चित् अखण्डं

ज्ञानं तदेव रुपं यस्य सः असंगचिद्रूपः तं । अर्मुमुं आत्मानं । देहेन्द्रिय-