This page has not been fully proofread.

११६
 
श्रीविवेकचूडामणिः सव्याख्यः
 
तदुक्तं गीतासु " संगात्संजायते कामः कामात्क्रोधोभिजायते । क्रोधाद्भवति
संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशा बुद्धिनाश: बुद्धिनाशात्-
प्रणश्यति इति । अतः ये साधवः सत्पुरुषाः मुमुक्षवः मोक्षकांक्षिणः
ते अत्र विषयारण्यभूमिषु न गच्छन्तु मागमन् । विषयेभ्यः मनो निवर्तयन्तु
मोक्षाय इत्यभिप्रायः । कश्चिद्धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुरमृतत्व-
मिच्छन् इतिश्रुतेरिति भावः ॥ १७८॥
 
"
 
नास्त्यविद्या मनसोतिरिक्तेत्युक्तं उपपादयत् तस्य वन्धकत्वं
विशदयति मन: प्रसूत इत्यादिना चतुभिः,
 
मनः प्रसूते विषयानशेषान् स्थूलात्मना सूक्ष्मतया च भोक्तुः।
शरीरवर्णाश्रम-जातिभेदान् गुणक्रियाहेतु-फलानि नित्यम् ॥१७९॥
भोक्तु: जीवस्य जाग्रदवस्थायां स्थूलात्मना तत्तद्देवतानुगृहीत-
तत्तदिन्द्रियजन्यानुभव - विषयतया स्थूलात्मना, स्वप्नावस्थायां इन्द्रियाणा-
मुपरते: सूक्ष्मतया केवलसाक्षिवेद्यतया च अशेषान् सर्वान् विषयान् भोग्य-
पदार्थान् मनः प्रसूते उत्पादयति । ते विषयाः के इत्याकांक्षायामाह
शरीरवर्णाश्रमजातिभेदान् शरीरं च वर्णाश्च आश्रमाश्च जातयश्च
शरीरवर्णाश्रमजातयः तासां भेदाः प्रकाराः तान् देवतिर्यङ्मनुष्यादि-
शरीराणि ब्राह्मण-क्षत्रिय-वैश्य-शूद्ररूपवर्णान् ब्रह्मचारि-गृहस्थ - वानप्रस्थ-
संन्यास्याश्रमान् देवमनुष्यादि शरीरं च देवत्वादिजातीश्च प्रसूते ।
सुषुप्त्यादौ मनसोभावे एतेषां भेदानां अभावात् सर्वमिदं मनसा कल्पित -
मेवेति भावः । एवं गुणक्रियाहेतुफलानि गुणाः शब्दादयः क्रियाः उत्क्षेपणा-
दयः हेतवः तत्तत्कार्यनिमित्तोपादानानि । फलानि घटादीनि तत्तत्कार्याणि
एतत्सर्वं मन एव नित्यं सदा प्रसूते । नान्यनिमित्तं इदं मनसोभावे कस्याप्य
भावात् । तदेव सर्वस्य मूलकारणमिति भावः । शरीरेत्यत्र भिद्यन्ते
इति भेदा: इतिव्युत्पत्या कर्मधारयो वा ॥ १७९॥
 
असंगचिद्रूप-ममुं विमोह्य देहेन्द्रिय-प्राणगुणैनिबध्य ।
अहंममेति भ्रमयत्यजस्रं मनस्स्वकृत्येषु फलोपभुक्तिषु ॥१८०॥
 
मनः कर्तृ असंगचिद्रूपं असंगा सर्वसंगविधुरा या चित् अखण्डं
ज्ञानं तदेव रुपं यस्य सः असंगचिद्रूपः तं । अर्मु आत्मानं । देहेन्द्रिय-