This page has been fully proofread once and needs a second look.

९८
 
श्रीविवेकचूडामणिः सव्याख्यः
 
शून्यः देहं स्थूलादिकं आत्मानं मत्वा अहमिति विज्ञाय अयं पुमान् भ्रमति

संसारदीर्घाटव्याम् ॥ १४६॥
 

 
मुमुक्षूणां सुखबोधार्थं समूलं समग्रं संसारं वृक्षत्वेन रूपयति ।

बीजमित्यादिना ।
 

 
बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरंकुरः,
 

रागः पल्लवमम्बु कर्म तु वपुः स्कंधोसवः शाखिकाः ।

अग्राणीन्द्रिय-संहतिश्च विषयाः पुष्पाणि दुःखं फलं,
 

नानाकर्म-समुद्भवं बहुविधं भोक्तात्र जीवः खगः ॥ १४७॥
 
शरीरात्मधी-समनन्तरं
 

 
संसृतिभूमिजस्य संसृतिरेव भूमिजः वृक्षः तस्य बीजं मूलकारणं तमः

अज्ञानं । तुरवधारणे अज्ञानमेव मूलं नान्यदित्यर्थः। देहात्मधीरंकुरः

अनात्मन्यात्मधियः अज्ञानैकनिबन्धनत्वात् । रागः पल्लवं किसलय:

अंकुरोत्पत्यनन्तर - कालिकत्वात् - पल्लवस्य ।
शरीरात्मधी-समनन्तरं
शरीरानुकूले आत्मानुकूलत्वज्ञानात् रागः इच्छा वैषयिकी । अंबु जलं वृक्ष-

वृद्धिहेतुः कर्म तु कर्मैवेत्यर्थः । तुः पूर्ववत् । "कुर्वते कर्म भोगाय कर्म

कर्तुं च भुंजते" इत्युक्तेः । कर्म पुण्यापुण्यात्मकं । वपुःस्कंध: यतश्शाखा

उत्पद्यन्ते स मध्यभागः वृक्षस्य स्कंध इत्युच्यते । असवः पंच प्राणादयो

वायवः स्कंधतः प्रसृमरत्वात् शाखिका: शाखा एव शाखिकाः ।

अग्राणीन्द्रिय संहतिः इन्द्रियाणां संहतिः इन्द्रियसंहतिः इन्द्रियसमुदाय:

चक्षुरादीनां वागादीनां च इन्द्रियाणां प्रणाधीनस्थितिकत्वात् । इदं तु

इन्द्रियप्राणसंवादश्रुतौ प्रसिद्धं । अग्राणां शाखाधीनस्थितिकत्वंसिद्धमेव ।

विषयाः शब्दस्पर्श-रूपरसगंधाः पुष्पाणि अग्रसंबन्धात् कुसुमानि । दुःखं

फलं विषयेन्द्रिय -संबन्धानंतरकालिकत्वात् । शाखाग्रेषु पुष्पोत्पत्यनंतरं हि

फलं जायते । यद्यपि सुखमपि फलत्वेन वक्तव्यमिति प्रतीयेत पूर्वं कर्म-

शब्देन पुण्यापुण्यरूपस्यकर्मणः उक्तत्वात् सुखस्यापि कदाचिदनुभवाच्च

अथापि वैषयिकसुखमपि दुःखमित्येव परिगण्यते विवेकिभिः ।

तत्साधनार्थं तन्नाशे च दुःखस्यैवानुभवात् "ये हि संस्पर्शजा भोगा दुःख-

योनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषुरमते बुधः" इति गीतायामुक्तेः

अत एव एकविंशतिदुःखमध्ये षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः शरीरं
 
(6