2023-02-20 14:42:47 by ambuda-bot
This page has not been fully proofread.
९८
श्रीविवेकचूडामणिः सव्याख्यः
शून्यः देहं स्थूलादिकं आत्मानं मत्वा अहमिति विज्ञाय अयं पुमान् भ्रमति
संसारदीर्घाटव्याम् ॥ १४६॥
मुमुक्षूणां सुखबोधार्थ समूलं समग्र संसार वृक्षत्वेन रूपयति ।
बीजमित्यादिना ।
बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरंकुरः,
रागः पल्लवमम्बु कर्म तु वपुः स्कंधोसवः शाखिकाः ।
अग्राणीन्द्रिय-संहतिश्च विषयाः पुष्पाणि दुःखं फलं,
नानाकर्म-समुद्भवं बहुविधं भोक्तात्र जीवः खगः ॥ १४७॥
शरीरात्मधी-समनन्तरं
संसृतिभूमिजस्य संसृतिरेव भूमिजः वृक्षः तस्य बीजं मूलकारणं तमः
अज्ञानं । तुरवधारणे अज्ञानमेव मूलं नान्यदित्यर्थः। देहात्मधीरंकुरः
अनात्मन्यात्मधियः अज्ञानैकनिबन्धनत्वात् । रागः पल्लवं किसलय:
अंकुरोत्पत्यनन्तर - कालिकत्वात् - पल्लवस्य ।
शरीरानुकूले आत्मानुकूलत्वज्ञानात् रागः इच्छा वैषयिकी । अंबु जलं वृक्ष-
वृद्धिहेतुः कर्म तु कवेत्यर्थः । तुः पूर्ववत् । कुर्वते कर्म भोगाय कर्म
कर्तुं च भुंजते" इत्युक्तेः । कर्म पुण्यापुण्यात्मकं । वपुःस्कंध: यतश्शाखा
उत्पद्यन्ते स मध्यभागः वृक्षस्य स्कंध इत्युच्यते । असवः पंच प्राणादयो
वायवः स्कंधतः प्रसृमरत्वात् शाखिका: शाखा एव शाखिकाः ।
अग्राणीन्द्रिय संहतिः इन्द्रियाणां संहतिः इन्द्रियसंहतिः इन्द्रियसमुदाय:
चक्षुरादीनां वागादीनां च इन्द्रियाणां प्रणाधीनस्थितिकत्वात् । इदं तु
इन्द्रियप्राणसंवादश्रुतौ प्रसिद्धं । अग्राणां शाखाधीनस्थितिकत्वंसिद्धमेव ।
विषयाः शब्दस्पर्श-रूपरसगंधाः पुष्पाणि अग्रसंबन्धात् कुसुमानि । दुःखं
फलं विषयेन्द्रिय संबन्धानंतरकालिकत्वात् । शाखाग्रेषु पुष्पोत्पत्यनंतरं हि
फलं जायते । यद्यपि सुखमपि फलत्वेन वक्तव्यमिति प्रतीयेत पूर्वं कर्म-
शब्देन पुण्यापुण्यरूपस्यकर्मणः उक्तत्वात् सुखस्यापि कदाचिदनुभवाच्च
अथापि वैषयिकसुखमपि दुःखमित्येव परिगण्यते विवेकिभिः ।
तत्साधनार्थं तन्नाशे च दुःखस्यैवानुभवात् "ये हि संस्पर्शजा भोगा दुःख-
योनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषुरमते बुधः" इति गीतायामुक्तेः
अत एव एकविंशतिदुःखमध्ये षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः शरीरं
(6