This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
कबलितदिननाथे दुर्दिने सान्द्रमेघैः
 

व्यथयति हिमझंझावायुरुग्रो यथैतान् ।

अविरततमसात्मन्यावृते मूढबुद्धि
 
धिं
क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ॥ १४५॥
 

 
सान्द्रमेघैः सान्द्राः निबिडा: ते च ते मेघाश्च सान्द्रमेघाः तैः निरंतर-

मेघैः । कबलितदिननाथे कबलितः ग्रस्तः दिननाथः सूर्यः यस्मिन् तत्

कबलितदिननाथं तस्मिन् । दुर्दिने "मेघच्छन्नेन्हि दुर्दिनं " इति कोशात् ।

सूर्याभानेन अप्रकाशमये दिवसे उग्रः भयंकरः । हिमझंझावायुः "झंझावातः

सवृष्टिक " इति कोशात् हिमसहितः सवृष्टिकवायुः यथा एतान् पथिकान्

जनान् व्यथयति दुःखाकरोति । सूर्यातपो नास्ति मध्येमार्गं स्थितिः हिमवर्ष-

सहितः महान् वायुश्चेति तदाऽध्वगानां पीडा दुर्वचा । एवं अविरततमसा

सांद्रमेघवत् गाढेन तमसा सूर्यस्थानीये आत्मनि आवृते कवलिते

स्फुटतया अप्रतीयमाने नष्टप्राये तीव्र विक्षेपशक्ति: राजसी कामक्रोधादि-

रूपेण परिणममाना प्रबलविक्षेपशक्तिः । मूढबुद्धिं तामस्या आवरण-

शक्त्या मूढा प्राप्तज्ञायमानताक-ज्ञानासमर्था बुद्धिः यस्य स मूढबुद्धिः तं

पुमांसं । बहुदुःखै: बहूनि च तानि दुःखानि च बहुदुःखानि तैः जन्ममृत्यु-

जरारोगादिजन्यैः क्षपयति नाशयतीत्यर्थः । संततदुःखपरंपरा-मग्नस्य

क्वानन्दरूप-स्वात्मज्ञानं तदभावे स्वात्मादर्शनात् नष्ट इव भवत्यात्मेति

भावः ॥ १४५ ॥
 
९७
 

 
कथमेष आगत इतिप्रश्नोत्तरमुक्तं स्फुटज्ञानार्थ-मुपसंहरति ।

एताभ्यामिति ।
 

 
एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः ।
 

याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्ययम् ॥ ४६॥
 

 
एताभ्यां गुणत्रयमयाज्ञान-गततमोरजश्शक्तिभ्यां आवृतिविक्षेप-

रूपाभ्यां पुंसः पुरुषस्य बन्धः अतस्मितमिंत्बुद्धि-रूपाध्यासः समागतः ।

स्थिरतरसाधनचतुष्टयपुरस्सर-वेदान्तविचारजन्य- स्वात्मसाक्षात्कारं विना

दुर्निरसः प्राप्तः । याभ्यां पूर्वोक्तशक्तिभ्यां विमोहितः ज्ञातव्यज्ञान-
4