2023-02-20 14:42:47 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
कबलितदिननाथे दुर्दिने सान्द्रमेघैः
व्यथयति हिमझंझावायुरुग्रो यथैतान् ।
अविरततमसात्मन्यावृते मूढबुद्धि
क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ॥ १४५॥
सान्द्रमेघैः सान्द्राः निबिडा: ते च ते मेघाश्च सान्द्रमेघाः तैः निरंतर-
मेघैः । कबलितदिननाथे कबलितः ग्रस्तः दिननाथः सूर्यः यस्मिन् तत्
कबलितदिननाथं तस्मिन् । दुदिने "मेघच्छन्नेन्हि दुदिनं " इति कोशात् ।
सूर्याभानेन अप्रकाशमये दिवसे उग्रः भयंकरः । हिमझंझावायुः "झंझावातः
सवृष्टिक " इति कोशात् हिमसहितः सवृष्टिकवायुः यथा एतान् पथिकान्
जनान् व्यथयति दुःखाकरोति । सूर्यातपो नास्ति मध्येमार्ग स्थितिः हिमवर्ष-
सहितः महान् वायुश्चेति तदाऽध्वगानां पीडा दुर्वचा । एवं अविरततमसा
सांद्रमेघवत् गाढेन तमसा सूर्यस्थानीये आत्मनि आवृते कवलिते
स्फुटतया अप्रतीयमाने नष्टप्राये तीव्र विक्षेपशक्ति: राजसी कामक्रोधादि-
रूपेण परिणममाना प्रबलविक्षेपशक्तिः । मूढबुद्धिं तामस्या आवरण-
शक्त्या मूढा प्राप्तज्ञायमानताक-ज्ञानासमर्था बुद्धिः यस्य स मूढबुद्धिः तं
पुमांस । बहुदुःखै: बहूनि च तानि दुःखानि च बहुदुःखानि तैः जन्ममृत्यु-
जरारोगादिजन्यैः क्षपयति नाशयतीत्यर्थः । संततदुःखपरंपरा-मग्नस्य
क्वानन्दरूप-स्वात्मज्ञानं तदभावे स्वात्मादर्शनात् नष्ट इव भवत्यात्मेति
भावः ॥ १४५ ॥
९७
कथमेष आगत इतिप्रश्नोत्तरमुक्तं स्फुटज्ञानार्थ-मुपसंहरति ।
एताभ्यामिति ।
एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः ।
याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्ययम् ॥ ४६॥
एताभ्यां गुणत्रयमयाज्ञान-गततमोरजश्शक्तिभ्यां आवृतिविक्षेप-
रूपाभ्यां पुंसः पुरुषस्य बन्धः अतस्मितबुद्धि-रूपाध्यासः समागतः ।
स्थिरतरसाधनचतुष्टयपुरस्सर-वेदान्तविचारजन्य- स्वात्मसाक्षात्कारं विना
दुर्निरसः प्राप्तः । याभ्यां पूर्वोक्तशक्तिभ्यां विमोहितः ज्ञातव्यज्ञान-
4