2023-02-20 14:42:47 by ambuda-bot
This page has not been fully proofread.
श्री विवेकचूडामणिः सव्याख्यः
तदधीनतयेति यावत् उपाधेः प्रतिबिंबपक्षपातित्वात् । प्रसिद्धं हि जले
चलति तत्र भासमान - सूर्यप्रतिबिंबोपि चलतीति ।
लोकौ अनुसंचरति
समानस्सन् उभौ
सधीः स्वप्नो भूत्वा ध्यायतीव लेलायतीव " इति
श्रुतेः। स्वयमभिनयन् स्वस्मिन्नारोपयन् । अपारे अनवधौ विषयविषपूरे
विषया एव विषं विषयविषं तस्य पूर: प्रवाहः यत्र स विषयविषपूरः
तस्मिन्संसारे जलनिधौ संसाररूपसमुद्रे । सप्तमी समानाधिकरणत्वार्थिका ।
कुमतिः कुत्सिता अब्रह्मगामिनी मतिः बुद्धिः यस्य सः कुमतिः अत एव
कुत्सितगतिः कुत्सिता निंदिता गतिरवगतिः नरकाद्यधोलोकगतिर्वा यस्य
स कुत्सितगतिः अयं पुमान् निमज्योन्मज्य अस्वतंत्रः अधो गत्वा ऊर्ध्व-
मागत्य भ्रमति । अवशीकृतबुद्धेः इन्द्रियलौल्येन विषयाधीनतया भ्रान्ति
परंपरा न संसारपार ब्रह्म प्राप्तिरिति भावः ॥ १४३ ॥
स्वकार्यस्यापि स्वतिरोधायकत्वं सदृष्टान्तमाह । भान्विति ।
भानुप्रभा-संजनिता भ्र-पंक्तिः
भानुं तिरोधाय यथा विजृंभते ।
आत्मोदिताहंकृति-रात्मतत्वं
तथा तिरोधाय विजृंभते स्वयम् ॥ १४४॥
भानो: सूर्यस्य प्रभया किरणै: संजनिता समुत्पादिता अभ्रपंक्ति:
आपः विभ्रतीति अभ्राणि मेघाः तेषां पंक्ति: माला, ग्रीष्मे सूर्यकिरणैः
आकृष्टा आप एव मेघात्मना भवन्तीति प्रसिद्धिः । सा मेघमाला स्वोत्पादकं
भानुं सूर्यंतिरोधाय आवृत्य यथा विजृंभते स्वयं पुरोभवति । तकिरणेरैव
जातत्वं तत्तिरोधाय स्वयमवभासमानत्वं चेति सर्वांशे दृष्टान्तः । तथा
आत्मोदिताहंकृतिः आत्मनः सकाशादुदिता उत्पन्ना याहंकृति: देहादावहं-
प्रत्ययः आत्माधीन-सत्तास्फूर्तिमानपि आत्मतत्वं आत्मयाथात्म्यं नित्य-
शुद्ध-बुद्ध मुक्तस्वभावत्वं तिरोधाय तदीयस्फुटभानं प्रतिबध्य स्वयं विजृंभते
पुरस्स्फूर्तिको भवतीत्यर्थः । अहंकृतिः बुद्धिर्वा तस्या अपि आत्मनः
सकाशादुत्पन्नत्वात् विज्ञानमयकोशत्वेन तदावरकत्वाच्च ॥ १४४॥
इदानीं आवरणविक्षेपशक्तिकार्यं सदृष्टान्तमाह । कबलितेति ।