2023-02-21 16:32:17 by Vasant
This page has not been fully proofread.
यतो बहुजन्मार्जित-सुकृतविशेष-प्राप्यं मानुषपौरुषादिकं, यतश्च
स्वार्थे अप्रमत्तेन पुरुषेण भवितव्यं, यतश्च आत्यंतिकदुःख
निवृत्ति-निरतिशय सुखरूपमोक्ष: आत्मैक्यबोधेन विना कर्मकाण्डाध्ययन
तदनुष्ठानादिरूप-कर्मकलापेन साक्षान्नाविर्भवति, यतश्च श्रुतिरेव साक्षादि-ममर्थं
"अमृतत्वस्य नाशास्ति वित्तेन" इति वित्तसाध्य-कर्मणः
साक्षान्मोक्षोपयोगित्वं प्रत्यक्षेप्सीत् अतः विमुक्त्यै प्रयतेत विद्वानिति ॥
अतो विमुक्त्यै प्रयतेत विद्वान् संन्यस्तबाह्यार्थ-सुखस्पृहः सन् ।
सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थ-समीहितात्मा ॥८॥
विद्वानिति नित्यानित्य - विवेकी कथितः "ये हि संस्पर्शजा भोगा
दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः" ॥ इति
गीतासु बुधशब्देनार्थ-स्यास्य सूचितत्वात् । वैषयिकसुखस्य अनित्यत्वं
द्योतयति बाह्यार्थेति । अर्थानां बाह्यत्वेन आगन्तुकतया सार्वदिकत्वाभावात्
तत्प्रयोज्यसुखाविर्भावस्यापि तादृशत्वं इति । अतो विवेकिना पुरुष
धौरेयेण तत्र स्पृहा त्यक्तव्येति प्रयत्नप्रकारं प्रथममाह संन्यस्तबाह्यार्थ-
सुखस्पृहस्सन्निति । बाह्याश्च ते अर्थाश्च बाह्यार्थाः, तैः सुखं बाह्यार्थसुखं, -
तस्मिन् स्पृहा, बाह्यार्थसुखस्पृहा संन्यस्ता येन इति ऐहिकामुष्मिक-
फलभोगविरागः कथितः । तेन श्रुतिस्मृत्युक्त कर्मणां निष्कामानुष्ठानेन
नितान्तनिर्मली-कृतस्वान्तत्वं उक्तप्रायम् । अविवेकिनः विषयलंपटस्य
अस्तित्वमपि दुर्लभमिति सूचयति सन्निति "आचार्यवान्पुरुषो वेद "
"आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत् " इति श्रुतेः अतीन्द्रियस्य
आत्मैक्यस्य गुरुं विनाऽधिगंतुमशक्यत्वात् पूर्वोक्तरीत्या महापुरुषसंश्रयः
कर्तव्य इत्याह सन्तमित्यादिना । अस्ती सन् तमित्यर्थः, "अस्ति ब्रह्मेति चेद्वेद,
सन्तमेनं ततो विदुः" "सदेव सोम्येदमग्र आसीत् " "यो वै भूमा तदमृतम्
अतोन्यदार्तम्" "सत्यं ज्ञानमनन्तं ब्रह्म" "नासतो विद्यते भावः नाभावो
विद्यते सतः । उभयोरपि दृष्टोन्तस्त्वनयो-स्तत्वदशिभिः " इत्यादि-
श्रुतिस्मृतिभ्यः कालत्रयाबाध्यत्वरूपास्तित्वस्य ब्रह्मण्येव सत्वात् ।
देशिकस्य तथात्वं "ब्रह्मविद्ब्रह्मैव भवति" इति श्रुत्या तदभिन्नत्वात् ।
तेन असद्भ्योऽनात्मभ्यः सुतरां निवृत्ताभिमानत्वरूपा ब्रह्मनिष्ठा सूचिता
भवति । 'तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं