This page has not been fully proofread.

श्रीविष्णुसहस्त्रनामस्तोत्रम्
 
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षांतिश्रीधृतिस्मृतिकीर्तिभिः ॥ १३२ ॥
न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः ।
भवंति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ १३३ ॥
द्यौः सचंद्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १३४ ॥
ससुरासुरगंधर्व सयक्षोरगराक्षसम् ।
 
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १३५ ॥
इंद्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १३६ ॥
सर्वागमानामाचार: प्रथमं परिकल्पते ।
 
१३
 
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १३७ ॥
ऋषयः पितरो देवा महाभूतानि धातवः ।
जंगमाजंगमं चेदं जगन्नारायणोद्भवम् ॥ १३८ ॥
योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादिकर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्व जनार्दनात् ॥ १३९ ॥
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
 
त्रीन् लोकान्व्याप्य भूतात्मा भुंक्ते विश्वभुगव्ययः ॥ १४ ॥
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
 
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ १४१ ॥
विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् ।
 
भजंति ये पुष्कराक्षं न ते यांति पराभवम् ॥ १४२ ॥
 
इति श्रीमहाभारते आनुशासनिके भीष्मयुधिष्ठिरसंवादे विष्णोर्दिव्य-
सहस्रनामस्तोत्रं नाम एकोनपंचाशदधिकशततमोध्यायः ॥
॥ श्रीरस्तु ॥
 
Printed by J. R. Aria, at the Vasanta Press, Adyar, Madras.