This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
अर्चिष्मा नर्चितः कुंभो विशुद्धात्मा विशोधनः ।
 
अनिरुद्धो ऽप्रतिरथः प्रद्युम्नो ऽमितविक्रमः (641) ॥ ८१ ॥
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
 
त्रिलोकात्मा त्रिलोकेश: केशवः केशिहा हरिः (650) ॥ ८२ ॥
कामदेवः कामपाल कामी कांतः कृतागमः ।
 
अनिर्देश्यवपु विष्णु र्विरो ऽनंतो धनंजयः (660) ॥ ८३ ॥
ब्रह्मण्यो ब्रह्मक द्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
 
ब्रह्मवि द्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः (670) ॥ ८४ ॥
महाक्रमो महाकर्मा महातेजा महोरगः ।
 
महाऋतु महायज्वा महायज्ञो महाहविः (678) ॥ ८५ ॥
 
form
 
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्ण: पूरयिता पुण्यः पुण्यकीर्ति रनामयः (689) ॥ ८६ ॥
मनोजव स्तीर्थकरो वसुरेता वसुप्रदः ।
 
वसुप्रदो वासुदेवो वसु र्वसुमना हविः (698) ॥ ८७ ॥
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
 
शूरसेनो यदुश्रेष्ठः सन्निवास: सुयामुन: (707) ॥ ८८ ॥
भूतावासो वासुदेवः सर्वासुनिलयो ऽनलः ।
 
दर्पहा दर्पदो दृप्तो दुर्धरो ऽथापराजित: (716) ॥ ८९ ॥
विश्वमूर्ति ऽमहामूर्ति दीप्तमूर्ति रमूर्तिमान् ।
 
अनेकमूर्ति रव्यक्तः शतमूर्तिः शताननः (724) ॥ ९० ॥
एको नैकः सवः कः किं यत् तत् पदमनुत्तमम् ।
लोकबंधु र्लोकनाथो माधवो भक्तवत्सलः (736) ॥ ९१ ॥
सुवर्णवर्णो हेमांगो वरांग चंदनांगदी ।
 
वीरहा विषमः शून्यो घृताशी रचल चल: (746) ॥ ९२ ॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा घराघर: (756 ) ॥ ९३ ॥
 
P