This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
व्यवसायो व्यवस्थानः संस्थान: स्थानदो ध्रुवः ।
परधि: परमस्पष्ट स्तुष्ट: पुष्ट: शुभेक्षण: (393) ॥ ५५ ॥
रामो विरामो विरजो मार्गों नेयो नयो ऽनयः ।
 
वीरः शक्तिमतां श्रेष्टो धर्मो धर्मविदुत्तमः (404) ॥ १६ ॥
वैकुंठ: पुरुष: प्राणः प्राणदः प्रणवः पृथुः ।
 
9
 
हिरण्यगर्भः शत्रुघ्नो व्यासो वायु रधोक्षजः (415) ॥ ५७ ॥
ऋतु: सुदर्शनः कालः परमेष्ठी परिग्रहः ।
 
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः (425) ॥ ५८ ॥
विस्तार : स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
 
अर्थो ऽनर्थो महाकोशो महाभोगो महाधनः (434) ॥ ५९ ॥
अनिर्विण्णः स्थविष्टो भू धर्मयूपो महामखः ।
 
नक्षत्रनेमि र्नक्षत्री क्षमः क्षाम: समीहन: (444) ॥ ६० ॥
यज्ञ इज्यो महेज्यश्च ऋतुः सत्रं सतां गतिः ।
 
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् (454) ॥ ६१ ॥
सुब्रतः सुमुखः सूक्ष्मः सुघोष: सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहु विदारण: (464) ॥ ६२ ॥
स्वापन: स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
 
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः (474) ॥ ६३ ॥
धर्मगु ब्धर्मकृ द्धर्मी स दसत् क्षर मक्षरम् ।
 
अविज्ञाता सहस्त्रांशु विधाता कृतलक्षण: (485) ॥ ६४ ॥
गभस्तिनेमिः सत्त्वस्थ: सिंहो भूतमहेश्वरः ।
 
आदिदेवो महादेवो देवेशो देवभृद्गुरुः (493) ॥ ६५ ॥
उत्तरो गोपति गोप्ता ज्ञानगम्य: पुरातनः ।
 
शरीरभूतभृद्भक्ता कपद्रो भूरिदक्षिणः (502) ॥ ६६ ॥
सोमपो ऽमृतपः सोमः पुरुजित् पुरुसत्तमः ।
 
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः (512) ॥ ६७ ॥