This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।
नैकरूप बृहद्रूपः शिपिविष्टः प्रकाशन: (274) ॥ ४२ ॥
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
 
ऋद्धः स्पष्टाक्षरो मंत्र चंद्राशु र्भास्करद्युतिः (282) ॥ ४३ ॥
अमृतांशूद्भवो भानुः शशिबिंदु: सुरेश्वरः ।
 
औषधं जगतस्सेतुः सत्यधर्मपराक्रम: (289) ॥ ४४ ॥
भूतभव्यभवन्नाथः पवनः पावनो ऽनलः ।
 
कामहा कामकृत् कांत: कामः कामप्रदः प्रभुः (299) ॥ ४५ ॥
युगादिकृयुगावर्तो नेकमायो महाशनः ।
 
अदृश्यो ऽव्यक्तरूपश्च सहस्रजि दनंतजित् (307) ॥ ४६ ॥
इष्टो विशिष्टः शिष्टेष्ट: शिखंडी नहुषो वृषः ।
 
क्रोधहा कोधकृतकर्ता विश्वबाहु महीधर : (317) ॥ ४७ ॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
 
अपान्निधि रधिष्ठान मप्रमत्तः प्रतिष्ठित: (326) ॥ ४८ ॥
स्कंद: स्कंदधरो धुयों वरदो वायुवाहनः ।
 
वासुदेवो बृहद्भानु रादिदेव: पुरंदर: (335) ॥ ४९ ॥
अशोक स्तारण स्तारः शूर: शौरि र्जनेश्वर: ।
अनुकूल: शतावर्तः पद्मी पद्मनिभेक्षण: (345) ॥ ५० ॥
पद्मनाभो ऽरविंदाक्षः पद्मगर्भ: शरीरभृत् ।
 
महर्षि ऋद्रो वृद्धात्मा महाक्षो गरुडध्वजः (354) ॥ ५१ ॥
अतुलः शरभो भीम: समयज्ञो हविर्हरिः ।
 
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजयः (862) ॥ ५२ ॥
विक्षरो रोहितो मार्गों हेतु र्दामोदरः सहः ।
 
महीधरो महाभागो वेगवा नमिताशन: (372) ॥ ५३ ॥
उद्भवः क्षोभणो देवः श्रीगर्मः परमेश्वरः ।
 
करणं कारणं कर्ता विकर्ता गहनो गुहः (888) ॥ १४ ॥