This page has not been fully proofread.

श्री विष्णुसहस्रनामस्तानम्
योगी योगविदां नेता प्रधानपुरुषेश्वरः ।
 
नारसिंहवपुः श्रीमान् केशव: पुरुषोत्तमः ( 24 ) ॥ १६ ॥
सर्वः शर्वः शिवः स्थाणु र्भूतादि निधि रव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभु रीश्वरः ( 37 ) ॥ १७ ॥
स्वयंभूः शंभु रादित्यः पुष्कराक्षो महास्वनः ।
 
अनादिनिधनो धाता विधाता धातुरुत्तमः (46) ॥ १८ ॥
अप्रमेयो हृषीकेशः पद्मनाभो ऽमरप्रभुः ।
 
विश्वकर्मा मनु स्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः (55) ॥ १९ ॥
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
 
प्रभूत स्त्रिककुब्धाम पवित्रं मंगलं परम् (64) ॥ २० ॥
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भों माधवो मधुसूदनः (73) ॥ २१ ॥
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः
अनुत्तमो दुराधर्षः कृतज्ञः कृति रात्मवान् (84) ॥ २२ ॥
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
 
अहः संवत्सरो व्यालः प्रत्यय: सर्वदर्शनः (94) ॥ २३ ॥
अजः सर्वेश्वरः सिद्धिः सिद्धः सर्वादि रच्युतः ।
 
वृषाकपि रमेयात्मा सर्वयोगविनिःसृतः (103) ॥ २४ ॥
वसु र्वसुमनाः सत्यः समात्मा संमितः समः ।
 
अमोघः पुंडरीकाक्षो वृषकर्मा वृषाकृतिः (113) ॥ २५ ॥
रुद्रो बहुशिरा बभ्रु विश्वयोनिः शुचिश्रवाः ।
 
अमृतः शाश्वत: स्थाणु र्वरारोहो महातपाः (122) ॥ २६ ॥
सर्वगः सर्वविद्भानु विष्वक्सेनो जनार्दनः ।
 
वेदो वेदवि दव्यंगो वेदांगो वेदवित् कविः (132) ॥ २७ ॥
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूह चतुर्द धतुर्भुजः (140) ॥ २८ ॥