This page has not been fully proofread.

W
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायं स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ ५ ॥
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ ६॥
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ ७ ॥
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुंडरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ ८ ॥
परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ ९ ॥
पवित्राणां पवित्रं यो मंगलानां च मंगलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १० ॥
यतः सर्वाणि भूतानि भवत्यादियुगागमे ।
यस्मिंश्च प्रलयं यांति पुनरेव युगक्षये ॥ ११ ॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे श्रृणु पापभयापहम् ॥ १२ ॥
यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १३ ॥
 
अस्य श्रीविष्णुदिव्यसहस्त्रनामस्तोत्रमालामंत्रस्य
भगवान् वेदव्यास ऋषिः ।
 
अनुष्टुप् छंदः ।
 
श्रीविष्णुः परमात्मा देवता ।
अमृतांशूद्भवो भानुरिति बीजम् ।
देवकीनंदनः स्त्रष्टेति शक्तिः ।
त्रिसामा सामग: सामेति हृदयम् ।