This page has not been fully proofread.

श्रीगणेशाय नमः ॥
 
श्रीगोपालकृष्णाय नमः ॥
 
॥ अथ श्रीविष्णुसहस्रनामस्तोत्रप्रारंभः ॥
 
( यस्य स्मरणमात्रेण जन्मसंसारबंधनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ) ॥
श्रीवैशंपायन उवाच -
 
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शांतनवं पुनरेवाभ्यभाषत ॥ १ ॥
 
युधिष्ठिर उवाच -
 
किमेकं देवतं लोके किं वाप्येकं परायणम् ।
स्तुवंतः कं कमर्चतः प्राप्नुयुर्मानवाः शुभम् ॥ २ ॥
को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जंतुर्जन्मसंसारबंधनात् ॥ ३ ॥
 
श्रीभीष्म उवाच -
 

 
जगत्प्रभुं देवदेवमनंतं पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ ४ ॥