This page has been fully proofread once and needs a second look.

विष्णुपादादि-
,
 
6
 
इति भावः । नारदाद्याः नारदः आदिर्येषाम् : आदि- शब्द:
;

प्रकारवाची । तत्प्रकारविशिष्टाः सनकसनन्दनादयो मदात्म-

भूताः हे परमयोगिनः, वः सुखम् ,युष्माकं सदा सुखानु-

भूतिरेव । न लोकवत् तत्र प्रष्टव्यत्वं भवताम् । आत्माराम-

त्वान्निःस्पृहत्वाच्चेति भावः ; 'मद्भक्ता मद्गतप्राणा बोधयन्तः

परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति रमयन्ति च '

इति स्वोक्तेः । अत्र च अधिकारयोगात् ब्रह्मणोऽपि कुशल-

प्रश्नावकाश: । कर्तृत्वाभिमानिनां शऋाक्रादीनां किं पुनः ।

नारदादीनां तु ब्रह्मभावनासक्तानां कृतकृत्यतया न तत्प्रश्नो-

पपत्तिरिति सूचितम् । 'सनकादयो वै ब्रह्मभावनायुताः ।

कर्मभावनया चान्ये देवाबाद्या: स्थावरावराः । हिरण्यग-

र्भादिषु च ब्रह्मकर्मात्मिका द्विधा । अधिकारबोधयुक्तेषु

विद्यते भावभावना' इति श्रीविष्णुपुराणवचनात् । इत्थम्

अनेन प्रकारेण आस्येन्दोरास्रवन्तीत्यन्वयः । सेवावनम्रम्

अनुवर्तनार्थेथं प्रवणम् । सुरमुनिनिकरं सुराणां ब्रह्मादीनां

मुनीनां च समाजम् प्रेक्ष्य प्रकर्षेण दृष्ट्वा । तत्र प्रसन्नस्येति

तेषां धर्मसंस्थापनस्वविभूतित्वादनुग्रहोन्मुखस्येत्यर्थः । आ-

स्येन्दोः मुखचन्द्रात् । आस्रवन्ती परितः प्रवर्तमाना ।

आस्येन्दुग्रहणेन 'वदनं वै जनोऽस्य' इत्युक्तेः जनोलोक

त्वेनोपास्यस्य श्रीमुखस्यैवोपासनमपि कृतं वेदितव्यम् । वर
 
९८
 
-
 
-