This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
त्मस्वरूपे । अजिह्माम् अकुटिलां यथार्थज्ञानेन विगतसंशय-

विपर्ययाम् । अथवा अन्तरायरूपालस्यादिरहिताम् । मतिं

बुद्धिं ध्यानरूपामित्यर्थः । सृष्टिशक्त्युद्बोधनायेति भावः, 'अ-

थाभिध्यायिनस्तस्य सत्याभिधायिनः' इति श्रीविष्णुपुराण-

वचनात् । अपिः प्रश्ने सानुनये । कुरुषे योजयसि: ;त्रे
र्त्र-
भिप्रायक्रियाफलद्योतकमात्मनेपदम् । देव क्रीडाशीलेति

सोत्प्रासं वचनम् । पितृवनधरणीविचरणादिकं तव मम-

त्वबुद्धयो न जानन्ति । मादृशा एव तव प्रभावमा-

त्मारामत्वं निःस्पृहत्वं च प्रतियन्तीति भावः । तत्र हेतुः
-
शंभो शं सुखं भक्तानामस्मात् भवति अयं वा भावयतीति

निरुक्त्या परमानन्दरूपमिति द्योतयति । 'हसन्ति यस्याच-

रितं हि दुर्भगा: स्वाभाविकस्याविदुषः समीहितम् । यैर्वस्त्र-

मालाभरणानुलेपनैः श्वभोजनं स्वादुतयोपलालितम्' इति

श्रीभागवतोक्तेः । अतस्त्वां संभावये इतरेभ्यो विशेषादा-

सनस्वागतादिना सत्करोमि । 'णिचश्च' इत्यात्मनेपदम् ।

शक्र हे देवेन्द्र अमरैः अग्न्यादिभिः सह त्रिलोकीं त्रया-

णां लोकानां समाहारः; 'अकारान्तोत्तरपदो द्विगुः स्त्रियां

भाष्यते' इति द्विगुसमासे स्त्रीत्वम् । अवसि किम् ?

किंशब्द: प्रश्ने । अहरहस्तदर्थमुद्यच्छसे किम् ? विरुद्धोपनि-

पातश्च न विद्यते ? इत्यर्थ: । अन्यथा तत् प्रतिकुर्महे
 
7
 
९७