This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
जितत्वात् रश्मिभिरभिभूतत्वाच्च । नितरां तिरयति अत्यन्तं
का

क्ला
दयति यः असाविति तच्छब्दार्थमाह --श्रीभर्तुः विष्णोः

दन्तवासोद्युमणिः दन्तच्छदरूपः सूर्य: अघतमोनाशनाय

'दुःखैनोव्यसनेष्वघम्' इति वैजयन्ती । अत्रान्येऽप्यर्थास्तन्त्रे-

णोपात्ताः । एनसः पापस्य तत्कार्यस्य अकार्यनिबन्धनस्य

दुःखस्य तज्जन्यस्य निरययातनादेश् तिमिरस्य निरसनं क-

र्तुम् । अस्तु प्रवर्तताम् । कृभ्वस्तीनां क्रियासामान्यवाचि-

त्वात् अत्र श्लेषनिबन्धनं रूपकमलंकारः ॥ ३५ ॥
 

 
'दंष्ट्रा यमश्चोडुगणा द्विजानि' इति वचनादुडुगणात्मनो-

पास्यां दन्तावलीमुपास्ते
-
 
-
 

 
नित्यं स्नेहातिरेकान्निजक मितुरलं विप्रयोगाक्षमा या

वक्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजिः ।

लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्तावलिश्री-

र्दन्ताली सन्ततं सा नतिनुतिनिरतानक्षतान्रक्षतानःन्न:
 

 
स्नेहातिरेकात् प्रणयातिशयात् निजक्रमितुः स्वविषये प्रेम-

शालिनः । 'अनुकाभिकामीभीकः कमिता' इति सूत्रम् । अलम् । अलम्

अतितराम् । विप्रयोगाक्षमा विरहं सोढुमशक्ता । वक्त्रेन्दोः

मुखरूपस्य चन्द्रस्य । अन्तराले औचित्यादुत्सङ्गे । नित्यं