This page has not been fully proofread.

विष्णुपादादि.
 
कम्बुप्रवरः शङ्कराज:
 
पाञ्चजन्यः तद्रूपस्य शशधरस्य
प्रसन्नधवलमण्डलत्वात् आपूरणे मुखानिलेन मापने प्रवीण:
समर्थ: कर्मणि कुशल इत्यादिवल्लाक्षणिक प्रयोगः । अध
रस्य पूरणकर्तृत्वोक्तिः तत्र निवेश्य पूर्यमाणत्वात् । 'स
उच्चकाशे धवलोदरो दरो ह्युरुक्रमस्याधरशोणशोणित: ' इति,
'ततः प्रियोपात्तरसेऽपरोष्ठे निवेश्य दमौ जलजं कुमारः
इत्यादिप्रयोगात् । यदा यदा क्षीयते तदा तदा कम्बुप्रवर-
सहशस्य शशधरस्य स्वसंगृहीतेनामृतरसेन रजतकलशस्येव
क्षीरपूरेण पूरणाच्च । 'क्षीणं पीतं सुरैः सोममाप्याययति
दीसिमान्' इति श्रीविष्णुपुराणवचनात् । 'यस्मिन् सोमः
सुरपितृ नरैरन्वहं पीयमानः क्षीणः क्षीणः प्रविशति यतो
वर्धते चापि भूयः' इति साम्बोक्तेश्च । वक्त्राकाशान्त-
रस्थ: मुखविवरसमीपवर्ती अन्तरशब्दोऽत्र समीपं लक्ष
यति । राज्ञोऽयमभ्यन्तर इतिवत् । वक्त्रशब्देनारम्भो
लक्ष्यते । मुखभूतस्याकाशस्य मध्ये स्थितः उदितमात्र
इत्यर्थः । उदयरागरूषितस्येवाघरसम्योक्तेः । दन्ततारौ-
षशोभां दशनत्वेन स्थितानां ताराणाम् 'दंष्ट्रा यमचोडुगणा
द्विजानि' इति भागवतवचनात् । दन्तानां ताराधवलानां वा
'आकाशमापूरिततारतारम्' इतिवत् । द्विरददन्त वलक्षणां
नक्षत्राणां कान्ति च स्वारुण्योपरागात् तेषां धावल्यस्य त्या.