This page has been fully proofread once and needs a second look.

विष्णुपादादि.
 
कम्बुप्रवरः शङ्राज:
 
पाञ्चजन्यः तद्रूपस्य शशधरस्य

प्रसन्नधवलमण्डलत्वात् आपूरणे मुखानिलेन ध्मापने प्रवीण:

समर्थ: कर्मणि कुशल इत्यादिवल्लाक्षणिक: प्रयोगः । अध
-
रस्य पूरणकर्तृत्वोक्तिः तत्र निवेश्य पूर्यमाणत्वात् । 'स

उच्चकाशे धवलोदरो दरो ह्युरुक्रमस्याधरशोणशोणित: ' इति,

'ततः प्रियोपात्तरसेऽरोष्ठे निवेश्य दध्मौ जलजं कुमारः
'
इत्यादिप्रयोगात् । यदा यदा क्षीयते तदा तदा कम्बुप्रवर-

दृशस्य शशधरस्य स्वसंगृहीतेनामृतरसेन रजतकलशस्येव

क्षीरपूरेण पूरणाच्च । 'क्षीणं पीतं सुरैः सोममाप्याययति

दीसिप्तिमान्' इति श्रीविष्णुपुराणवचनात् । 'यस्मिन् सोमः

सुरपितृ नरैरन्वहं पीयमानः क्षीणः क्षीणः प्रविशति यतो

वर्धते चापि भूयः' इति साम्बोक्तेश्च । वक्त्राकाशान्त-

रस्थ: मुखविवरसमीपवर्ती अन्तरशब्दोऽत्र समीपं लक्ष
-
यति । राज्ञोऽयमभ्यन्तर इतिवत् । वक्त्रशब्देनारम्भो

लक्ष्यते । मुखभूतस्याकाशस्य मध्ये स्थितः उदितमात्र

इत्यर्थः । उदयरागरूषितस्येवारसम्योक्तेः । दन्ततारौ-

शोभां दशनत्वेन स्थितानां ताराणाम् 'दंष्ट्रा यमश्चोडुगणा

द्विजानि' इति भागवतवचनात् । दन्तानां ताराधवलानां वा

'आकाशमापूरिततारतारम्' इतिवत् । द्विरददन्त वलर्क्षणां

नक्षत्राणां कान्तितिं च स्वारुण्योपरागात् तेषां धावल्यस्य त्या.
 
-