This page has not been fully proofread.

केशांन्तस्तोत्रम् ।
 
प्रतिहतेषु प्रयुज्यते । 'पूर्व तपोवीर्यमहसु कुण्ठः,
 
9 6 आ.
 
शस्त्रग्रहणादकुण्ठपरशो:
 
' इत्यादिप्रयोगात् । स चात्र लक्ष-
णया मान्त्रमाह । तमोगुणोद्रेकजनितं मान्द्यं विहाय
त्यक्त्वा । मम मतिः बुद्धिः । वसतु गृहत्वेन तमभिमन्यता-
मिति प्रार्थने लोट् । अत्र तद्गुणालंकारः ॥ ३४ ॥
 
अथ 'वीडोत्तरोष्ठोऽधर एव लोमः इति तत्त्वेनोपास्य
दन्तच्छदमुपास्ते–
 
:
 
९३
 
पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताप्रभाग:
काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीण: ।
बक्त्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभां
श्री भर्तुर्दन्तवासोद्यमणिरघतमोनाशनायास्त्वसौ नः ॥
 
3
 
पद्मायाः श्रियः निजरसामृतेन परमं सुखं प्रदातुं शीलं यस्य
पद्मानां कमलानां विकाससुखं च । परिलसदरुणश्रीपरीता-
ग्रभागः परिस्फुरन्त्या रक्तवर्णया परीतः प्राप्तः अग्रभागः
अर्थान्मुखस्य पुरोदेशो यस्य । अरुणस्य गरुडाग्रजस्य
रुचा परिवृताग्रदेशश्च तस्य सारथित्वेन रथपुरोभागवर्ति-
त्यात् । काले काले यदा यदा दनुजसमरसूरम्भादिकार्य
प्रसज्यते तदेत्यर्थः । चकार: पूर्वविशेषणसमुच्चयार्थः ।