This page has been fully proofread once and needs a second look.

केशांन्तस्तोत्रम् ।
 
प्रतिहतेषु प्रयुज्यते । 'पूर्व तपोवीर्यमह:सु कुण्ठः,
 
9 6
'.
 
- शस्त्रग्रहणादकुण्ठपरशो:
 
' इत्यादिप्रयोगात् । स चात्र लक्ष-

णया मान्त्रद्यमाह । तमोगुणोद्रेकजनितं मान्द्यं विहाय

त्यक्त्वा । मम मतिः बुद्धिः । वसतु गृहत्वेन तमभिमन्यता-

मिति प्रार्थने लोट् । अत्र तद्गुणालंकारः ॥ ३४ ॥
 

 
अथ 'वीडोत्तरोष्ठोऽधर एव लोमः इति तत्त्वेनोपास्
यं
दन्तच्छदमुपास्ते–
 
:
 
९३
 

 
पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताप्ग्रभाग:

काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीण: ।

क्त्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभां

श्री भर्तुर्दन्तवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥
 
3
 

 
 
पद्मायाः श्रियः निजरसामृतेन परमं सुखं प्रदातुं शीलं यस्य

पद्मानां कमलानां विकाससुखं च । परिलसदरुणश्रीपरीता-

ग्रभागः परिस्फुरन्त्या रक्तवर्णया परीतः प्राप्तः अग्रभागः

अर्थान्मुखस्य पुरोदेशो यस्य । अरुणस्य गरुडाग्रजस्य

रुचा परिवृताग्रदेशश्च, तस्य सारथित्वेन रथपुरोभागवर्ति-
त्या

त्वा
त् । काले काले यदा यदा दनुजसमरसूसंरम्भादिकार्
यं
प्रसज्यते तदेत्यर्थः । चकार: पूर्वविशेषणसमुच्चयार्थः ।