This page has been fully proofread once and needs a second look.

तैरिति सर्वत्र संबध्यते । प्रकाशै: उपचितः समन्तादावृतः ।
चित्रवर्ण: निजं नीलिमानमपास्य शबलवर्णो भूतः । वि-
भाति विशेषेण शोभते । कण्ठाश्लेषे दृढतरकण्ठग्रहे । कण्ठा-
कल्पकण्ठाश्लेषशब्दौ आभरणविशेषालिङ्गनयोः रूढौ । अतो
न कथितपदवत्वदोषः । रमायाः करवलयपदैः पाणिसंनिहि-
तकङ्कणगाढीभावजनिताभिः रेखाभिः । वलयशब्देन गता-
र्थत्वेऽपि करग्रहणं तत्संनिधानबोधनार्थम् । असंनिधा-
नेऽपि वलयस्याविरोधात् । मुद्रिते चिह्निते कण्ठाश्ले-
षमुद्रित इत्यनेन प्रतिकण्ठाश्लेषं मौग्ध्यात् मुद्रितत्वम् ।
क्षणान्तरे मुद्रणस्य फलस्यासिद्धेश्च स्मरदुर्ललितस्य पल्लव-
कोमलवल्लभाजनस्य भुजवल्लीभिर्निर्दयविमर्देन यथेष्टमुच्छे-
षणादिति सोत्प्रासं वचनं तत्र हेतुः । भद्ररूपे जगन्मो-
हनसौन्दर्य इति । अतः कथमनङ्गसंकुलादङ्गनाजनादनेन
रक्ष्यतामिति भावः । अनेन शृङ्गाररससर्वस्वभृङ्गारत्वमस्य द्यो-
त्यते । विगतकुण्ठीभावे संततभजनजागरूकेषु सुकृतिजनेषु
इति वा विकुण्ठाख्याया मातुरपत्यमिति वा विकुण्ठ एवेति
स्वार्थे वा तद्धितप्रत्ययः वैकुण्ठः पुरुषोत्तमः । तत्संबन्धीनि
वैकुण्ठीये 'वृद्धाच्छ: ' इति छः । अत्रेति यच्छब्दप्रतियोगी
इदंशब्द: । 'सप्तम्यास्त्रल्' अस्मिन्नित्यर्थ: । कण्ठे ग्रीवाना-
ले । कुण्ठ: प्रतिहतस्य भावः कुण्ठशब्दश्च निशितारेष्वायु-