This page has been fully proofread once and needs a second look.

विष्णुपादादि.
 
तैरिति सर्वत्र संबध्यते । प्रकाशै: उपचितः समन्तादावृतः ।

चित्रवर्ण : निजं नीलिमानमपास्य शबलवर्णो भूतः । वि-

भाति विशेषेण शोभते । कण्ठाश्लेषे दृढतरकण्ठग्रहे । कण्ठा-

कल्पकण्ठा श्लेषशब्दौ आभरणविशेषालिङ्गनयोः रूढौ । अतो

न कथितपदवत्वदोषः । रमायाः करवलयपदैः पाणिसंनिहि-

तकङ्कणगाढीभावजनिताभिः रेखाभिः । वलयशब्देन गता-

र्थत्वेऽपि करग्रहणं तत्संनिधानबोधनार्थम् । असंनिधा-

नेऽपि वलयस्याविरोधात् । मुद्रिते चिह्निते कण्ठाश्ले-

षमुद्रित इत्यनेन प्रतिकण्ठाश्लेषं मौग्ध्यात् मुद्रितत्वम् ।

क्षणान्तरे मुद्रणस्य फलस्यासिद्धेश्च स्मरदुर्ललितस्य पल्लव-

कोमलवल्लभाजनस्य भुजवल्लीभिर्निर्दयविमर्देन यथेष्टमुच्छे-
प्र

णादिति सोत्प्रासं वचनं तत्र हेतुः । भद्ररूपे जगन्मो-

नमौन्दर्य इति । अतः कथमनङ्गसंकुलादङ्गनाजनादनेन

रक्ष्यतामिति भावः । अनेन शृङ्गाररससर्वस्वभृङ्गारत्वमस्य द्यो-

त्यते । विगतकुण्ठीभावे संततभजनजागरूकेषु सुकृतिजनेषु

इति वा विकुण्ठाख्याया मातुरपत्यमिति वा विकुण्ठ एवेति

स्वार्थे वा तद्धितप्रत्ययः वैकुण्ठः पुरुषोत्तमः । तत्संबन्धीनि

वैकुण्ठीये 'वृद्धाच्छ: ' इति छः । अत्रेति यच्छन्द प्रतियोगी

इदंशब्द: । 'सप्तम्यास्त्रल्' अस्मिन्नित्यर्थ: । कण्ठे ग्रीवाना-

ले । कुण्ठ: प्रतिहतस्य भावः कुण्ठशब्दश्च निशितावेरेष्वायु-
९२
 
.