This page has been fully proofread once and needs a second look.

विष्णुपादादि-
र्णात् हिरण्यादिनिरसनप्रसिद्धेश् । कर्तारः अनुष्ठातारः ।

तथापि दुर्निरूपाः कुतोऽयमेतेषामीदृशः प्रभाव इति चिन्त
-
यितुमशक्या: अचिन्त्यशक्तित्वात् 'किमीह: किंकाय: स

खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादा
नं
इति च । अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतकोंर्को-

ऽयं कांश्चिन्मुखरयति मोहाय जगतः' इति भट्टाचार्योक्त-

वत् । शार्ङ्गं धनुःश्रेष्ठं बाणं शरं जात्येकवचनम् । कृपाणं

खड्डूंगं फलकं खेटम् । अरिगदे चक्रं गदां च । पद्मशौ
शङ्खौ
कमलं शङ्खं च । अत्राष्टसु गणितेषु दिव्यायुधेषु चक्रबाणकृ
-
पाणपद्मानां दक्षिणत ऊर्ध्वभागमारभ्य धारणम् ; शङ्खशार्ङ्ग-

फलकगदानां तु वामत ऊर्ध्वादितो धारणं चेति क्रमो मन्त-

व्यः । अक्रमोक्तिस्तु भक्ति संभ्रमद्योतिका । अत एत्र प्रक्रान्तस्य

गणनस्य परित्यागतः शस्त्रजालमित्युक्तम् । गणितव्यतिरिक्तं

शक्तिमुसलपरशुमुद्गरभिण्डिपालादीनां शस्त्राणाम् आयुधा
-
नां समूहं विबिभ्राणा धारयन्तः । तत्र हेतुः सहस्रम् अनेक

संख्योपलक्षणार्थमिदम्, सहस्रं बहव इति संख्येयविषय-

त्वात् । 'संख्याया द्योतने बहुता संख्येयेषु सर्ददैकता' इति

वैजयन्ती । सहस्रमित्यनेन 'शान्तं पापम् हन्त सापराधा
 
?
 

वयम्, अनन्तदिव्यायुधधारिणामपरिगण्यानां भगवद्भुजानो
 
;
 
नां
गणने प्रवृत्ताः
 
' इति भयं व्यज्यते । 'अनेक दिव्याभरणं