This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
9
 
विश्वस्य जगतस्त्राणे पालने एकस्मिन्नेव दीक्षा व्रतधा

रणं येषाम् । पूर्णकामस्य प्रयोजनान्तरानुद्देशेन धर्मसंस्था-

पनमेवापेक्षितमिति एकशब्देन द्योतयति । 'न मे पार्थास्ति

कर्तव्यं त्रिषु लोकेषु किंचन । अनवाप्तमवातव्यं वर्तते न च

कर्मणि', 'धर्मसंस्थापनार्थाय संभवामि युगे युगे' इत्यादि-

भगवंद्वचनात् । तदुपायप्रयोगवैदग्ध्यमाह तदनुगुणगुणक्षत्र-

निर्माणदक्षाः । तदिति त्राणं परामृश्यते । तस्मिंस्त्राणे अनु-

गुणाः अनुकूला: गुणा: यस्य रजोऽधिकसत्त्व विशिष्टत्वात्

क्षत्रस्य क्षत्रियवर्गस्य ' स क्षत्रं नाम वर्ण: इति मुरारिप्र-

योगात् । निर्माणे सर्गे विदग्धा : 'ब्राह्मणोऽस्य मुखमासीत् ।

बाहू राजन्यः कृतः ' इति श्रुतेः । 'ब्राह्मणक्षत्रियविशां शू-

द्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः
'
'शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वर-

भावश्च क्षात्रं कर्म स्वभावजम् ' इति भगवद्वचनात् । 'व

क्षसश्च रजोद्रिक्तास्तथान्या ब्राह्मणाभवन्' इति श्रीविष्णु-

पुराणवचनाच्च । तर्हि प्रयोजककर्तृत्वमेव न स्वयं कर्तृत्व-

माह - स्फुटगुरुयशसां स्फुटं सार्वलौकिकं गुरु अनल्पं यशः
-

कीर्तिर्येषु तत्र हेतुः अद्भुतानाम् अन्यैर्मनसाप्यचिन्त्यत्वात्

कर्मणां कार्याणां भूमण्डलोद्धरणदितिजभु ण्ड खण्डनादी-

नाम् ' उद्धृतासि वराहेण कृष्णेन शतबाहुना' इति मन्त्रव-
;
 
८९
 
9
 
-