This page has been fully proofread once and needs a second look.

विष्णुपादादि-
 
साधितेऽर्थे प्रमाणमिति मन्तव्यम् । रूपं स्वाभाविक: संस्था-
नविशेषः । ' रूपं महत्ते बहुवक्त्रनेत्रम्' 'तथाप्यनेकरूपस्य
तस्य रूपोऽहर्निशम्' इत्यादिप्रयोगात् । ' रूपं शब्दे पशौ
श्लोके ग्रन्थावृत्तौ सितादिषु । सौन्दर्ये च स्वभावे च'
इति वैजयन्ती । विशालं विस्तीर्णम् । आयतेरप्युपल-
क्षणमिदम् । 'अहो विशालं भूपाल भुवनत्रितयोदरम्'
इतिवत् । 'विशालमुरु विस्तीर्णम्' इति वैजयन्ती ।
'वे: शालच्छङ्कटचौ' इति शालच्प्रत्ययः । नीलाद्रेः,
हिमवान् हेमकुटश्च निषधश्चेति दक्षिणे । नील: श्वेत-
श्च शृङ्गी च उत्तरे वर्षपर्वताः' इत्युत्तरस्य मेरुमुत्तरेण
वर्तमानस्य महानीलरत्नमयसर्वाङ्गकतया नीलनाम्नः पर्वतश्रे-
ष्ठस्येत्यर्थः । तुङ्गशृङ्गस्थितम्, तरणिरथसरणिरोधिनि शिखरे
निषण्णम् । रजनीनाथबिम्बम्; संपूर्णतया निशायाः सर्वस्याः
स्वामीति व्यपदेशयोग्यस्य । अन्यथा निशैकदेशस्वाम्यात्
तथा वचनस्यौपचारिकत्वात् । चन्द्रस्य बिम्बं मण्डलमिव
भाति प्रकाशते । ननु सितमिति स्वयमुक्तस्य कम्बुराजस्य
मलिनकलङ्कचुम्बनविडम्बितमिन्दुबिम्बं कथमुपमानत्वेनोपादी-
यते ? उच्यते - हन्त निरूपयत्वायुष्मान्, नवमेघश्यामस्य
दामोदरस्य भुजाग्रे इति तत्प्रभानिकुरुम्बकरम्बितत्वद्योतना-
दत्रापि कलङ्कप्रतिवस्तुकालिमानुबन्धः कविवादिसहृदयशिरो-