This page has not been fully proofread.

५५
 
विष्णुपादादि-
लं यथा तथेति याचनक्रियाविशेषणम् । अभि-
याचामहे आभिमुख्येन प्रार्थयामहे इति सामान्येन
याचनसूचनम् । मध्ये वाक्यान्तरप्रवेशश्च दीनतातिशयद्यो-
तकः 'ज्वामसि वच्मि पंतिअतं किण्णपम्मुसिमि' इत्यादि-
बत् । सूचितो याच्याविशेष: क इत्यत्राह बन्धार्तिमिति ।
पुण्यपापरूपकर्म निगलबन्धनजनितां पीडाम् । बहुविहतिक-
रीम् बहोरनेकस्य पुरुषार्थस्य प्रतिबन्धहेतुम् । बाधतां विलो-
पयतु खण्डयत्वित्यर्थ: । बन्धुरं सुन्दरं बाहुमूलं भुजानां
साधारणं प्ररोहाधिष्ठानं स्कन्धदेश इत्यर्थ: । जात्येकवचन-
मिदम् बाहुमूलयोर्विद्यमानत्वात् । अत्र तद्गुणः स्वभावोक्ति
 
बालंकारः ॥ ३२ ॥
 
मरुतो बाहुरिति सावित्रीहृदयोक्तेः बलाधिष्ठानतया मरु-
दूपं बाहुमूलमुपास्त्र इदानीम् 'इन्द्रादयो बाहव आहुरस्य '
इति वचनात् इन्द्रादिदेवता त्वेनोपास्यान वाहूनेवोपास्ते--
विश्ववाणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः
कर्तारो दुर्निरूपस्फुट यशसां कर्मणामद्भुतानाम् ।
शबाणं कृपाणं फलकमरिगदे पद्मशी सहस्रं
बिभ्राणा: शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिम ॥