This page has been fully proofread once and needs a second look.

५५
 
विष्णुपादादि-
ड्मलं यथा तथेति याचनक्रियाविशेषणम् । अभि-

याचामहे आभिमुख्येन प्रार्थयामहे इति सामान्येन

याचनसूचनम् । मध्ये वाक्यान्तरप्रवेशश्च दीनतातिशयद्यो-

तकः 'ज्त्वामसि वच्मि पंतिअतं किण्णपम्मुसिमि' इत्यादि-

त् । सूचितो याच्याविशेष: क इत्यत्राह बन्धार्तिमिति ।

पुण्यपापरूपकर्म निगलबन्धनजनितां पीडाम् । बहुविहतिक-

रीम् बहोरनेकस्य पुरुषार्थस्य प्रतिबन्धहेतुम् । बाधतां विलो-

पयतु खण्डयत्वित्यर्थ: । बन्धुरं सुन्दरं बाहुमूलं भुजानां

साधारणं प्ररोहाधिष्ठानं स्कन्धदेश इत्यर्थ: । जात्येकवचन-

मिदम् बाहुमूलयोर्विद्यमानत्वात् । अत्र तद्गुणः स्वभावोक्ति
 
बा
-
श्चा
लंकारः ॥ ३२ ॥
 

 
मरुतो बाहुरिति सावित्रीहृदयोक्तेः बलाधिष्ठानतया मरु-

दूपं बाहुमूलमुपास्त्र इदानीम् 'इन्द्रादयो बाहव आहुरस्य '

इति वचनात् इन्द्रादिदेवता त्वेनोपास्यान वान् बाहूनेवोपास्ते--

 
विश्ववात्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः

कर्तारो दुर्निरूपस्फुट गुरुयशसां कर्मणामद्भुतानाम् ।

शार्ङ्गं
बाणं कृपाणं फलकमरिगदे पद्मशीशङ्खौ सहस्रं

बिभ्राणा: शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिम्