This page has not been fully proofread.

विष्णुपादादि-
रङ्गः शबलो वर्णश्चातकः षट्पदो मृगः' इति वैजयन्ती ।
षट्पदानां समूहै: । बहुवचनात् उपर्युपरि परिमलपरिमो-
हिताना मनास्वादितपूर्वममृतरसनिन्दकं मकरन्दनिष्यन्दमभि-
नन्दतां भ्रमराणां बृन्दसमापतनं द्योत्यते । मुखरितकुसुमा
वाचालितानि पुष्पाण्यङ्गभूतानि यस्याः । मेचकान्ता च
श्यामलपरिसरा चकार: सारङ्गसङ्कुरित्यनुकर्षणार्थः । कान्ता
अत एव परभागलाभेन रमणीयतरा । आभ्यां विशेषणा-
भ्यां शब्दरसगन्धरूपातिशयः प्रकाशितो वेदितव्यः । माला-
लिता मया लक्ष्म्या पुत्रवत्संभाविता हरिपरिरम्भसंरम्भेष्वपि
सदयं परिपाल्यमानेत्यर्थः । 'इन्दिरा लोकमाता मा' इ.
त्यमरः । जयन्ती देव्याः श्रियः देवस्य श्रीपतेश्च निरति
शय स्नेहभाजनत्वजनकैः सुकृतैः सर्वे जगदभिभूय वर्त
माना माला वैजयन्त्याख्या लक्
माला वैजयन्ती गदाभृतः । सा
भूतमाला च वै द्विज' इति
 
'पञ्चरूपा तु या
 
भूता नेतृसंघाता
श्रीविष्णुपुराणवचनात् ।
सुखैरिति बहुवचनेन ऐहिकैर्मोक्षसुखपर्यन्तैरिति द्योतयति ।
योजयन्ती श्लेषयन्ती सती । न विरमतु अस्मात् व्या-
पारात् निवृत्ता माभूत् । अत्र पादाद्यन्तयमकं शब्दालं-
कारः । व्यापकप्रथमपादे त्वर्थालंकारः स सहोक्तिरेकवाच-
कानुप्रवेशेन लक्षणेन संकरेण वर्तते साकम् इत्येकस्मिन्
 
८६