This page has been fully proofread once and needs a second look.

विष्णुपादादि-
रङ्गः शबलो वर्णश्चातकः षट्पदो मृगः' इति वैजयन्ती ।

षट्पदानां समूहै: । बहुवचनात् उपर्युपरि परिमलपरिमो-

हिताना मनास्वादितपूर्वममृतरसनिन्दकं मकरन्दनिष्यन्दमभि-

नन्दतां भ्रमराणां बृवृन्दसमापतनं द्योत्यते । मुखरितकुसुमा

वाचालितानि पुष्पाण्यङ्गभूतानि यस्याः । मेचकान्ता च

श्यामलपरिसरा चकार: सारङ्गसङ्कुघैरित्यनुकर्षणार्थः । कान्ता

अत एव परभागलाभेन रमणीयतरा । आभ्यां विशेषणा-

भ्यां शब्दरसगन्धरूपातिशयः प्रकाशितो वेदितव्यः । माला-

लिता मया लक्ष्म्या पुत्रवत्संभाविता हरिपरिरम्भसंरम्भेष्वपि

सदयं परिपाल्यमानेत्यर्थः । 'इन्दिरा लोकमाता मा' इ.
-
त्यमरः । जयन्ती देव्याः श्रियः देवस्य श्रीपतेश्च निरति
-
शय स्नेहभाजनत्वजनकैः सुकृतैः सर्वेवं जगदभिभूय वर्त
-
माना माला वैजयन्त्याख्या स्रक्
' पञ्चरूपा तु या
माला वैजयन्ती गदाभृतः । सा
भूतमाला च वै द्विज' इति
 
'पञ्चरूपा तु या
 
भूता
ता नेतृसंघाता

भूतमाला च वै द्विज' इति
श्रीविष्णुपुराणवचनात् ।

सुखैरिति बहुवचनेन ऐहिकैर्मोक्षसुखपर्यन्तैरिति द्योतयति ।

योजयन्ती श्लेषयन्ती सती । न विरमतु अस्मात् व्या-

पारात् निवृत्ता माभूत् । अत्र पादाद्यन्तयमकं शब्दालं-

कारः । व्यापकप्रथमपादे त्वर्थालंकारः स सहोक्तिरेकवाच-

कानुप्रवेशेन लक्षणेन संकरेण वर्तते साकम् इत्येकस्मिन्
 
८६