This page has not been fully proofread.

विष्णुपादादि-
द्रढयति । य एवंभूतः स आत्मा कौस्तुभो मणिः उपास-
नाय भक्तानां कौस्तुभः सन् परमेश्वरे स्वातिरिक्तो वर्त-
मानः अस्माकं भूत्यै भवत्वित्यर्थः । अत्रार्थश्लेषोऽलंकारः,
 
सूक्ष्मश्च ॥ ३० ॥
 
इत्थं मणिराजमुपास्य इदानीं महाभूतपञ्चकस्वरूपां मा-
लामुपास्ते -
 
या वायावानुकूल्यात्सरति मणिरुचा भासमाना समाना
साकं साकम्पमंसे वसति विद्धती वासुभद्रं सुभद्रम् ।
सारं सारङ्ग सर्मुखरितकुसुमा मेचकान्ता च कान्ता
माला मालालितास्मान्न विरमतु सुखैर्योजयन्ती जयन्ती ॥
 
या वायौ मारुते आनुकूल्यात् मनोगुणत्वेन दिव्यस्पर्श-
गन्धविशिष्टतया प्रशस्तदिग्भागप्रवृत्तैश्च सरति वीजमाने म
णिरुचा भूषणरत्नप्रभया साकं सह तस्या अपि नानावर्ण-
त्वात् बहुलकुसुमारचितत्वाच्च तया तुल्यमित्यर्थः । साकम्पम्
आकम्पेन ईषच्चलनेन सहितम् यथा तथा । अंसे स्कन्ध-
देशे या वसति सदा वर्तते इति संबन्ध: । भासमाना
दिव्यवर्णपञ्चकयुक्ततया दीप्यमाना असमाना समानं सदृशं
वस्तु मालान्तरम् अर्थान्न विद्यते यस्याः । अथवा मानेन