This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
मिति नैसर्गिकोऽयं लोकव्यवहार:' इत्याचार्यवचनात् ।
संनिधत्ते इति चैतन्यात्मना स्फुरति न तु जायते 'न
जायते म्रियते वा कदाचित्' इति श्रुत्या षण्णां भाववि-
काराणां प्रतिषिध्यमानत्वादिति द्योत्यते संनिधिः सत्तामा
श्रेण भ्रामको वा मनश्चक्षुरादिप्रेरक इत्यर्थः । आशाशब्देन
संकल्पादिमनोवृत्तय उपलक्ष्यन्ते आशाया रागविशेषात्मक-
त्वात् तन्मूलत्वाच्च द्वेषादीनाम् आत्मभास्वररूपभूतेन चैतन्येन
प्रकाशा विषयीकृता 'विदधुः स हरये बुद्धिसाक्षिणे नतो
स्मृते सर्वधीसाक्षिभूतम्' इत्याचार्यवचनात् । सर्वथा इति
क्रमदर्शनान्यथादर्शन। दर्शनानामात्मन्यसंभवः प्रकाश्यते 'न
हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते' इति 'नमतेर्मन्तारं मन्त्रीथा '
इत्यादिश्रुतिवचनैः 'क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भा-
रत' इति भगवद्वचनात् । 'अनेका धियो यस्तथैकप्रबोधः
स नित्योपलब्धिस्वरूपोऽहमात्मा' इत्याद्याचार्यवचनाञ्च ।
अन्यतेजांसि सूर्यादिप्रकाशान् अपिदधत् अध:कुर्वन्, आ-
स्मभासेत्यत्रापि संबध्यते । तेषामपि तदधीन प्रकाशत्वात्
'तस्य भासा सर्वमिदं विभाति' इत्यादिश्रुतिभ्यः । आश्च
स अद्भुतस्य बुद्धे: आस्पदीभूतः अनुभवसमये अनवय-
गप्रतीते: आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद्वदति ते.
गोऽन्तरराणि तिरस्करोति च तथायमपीत्युक्तमर्थ दृष्टान्तेन
 
८३