This page has been fully proofread once and needs a second look.

विष्णुपादादि-
मणि: माणिक्यम् । भूत्यै समृद्ध्यै । अस्तु भवतु इति

प्रार्थने लोट् । मणिः दिवसस्य दीपो वा प्रकाशकत्वात्

आदित्यः स इव । सोऽपि समुद्रात् संभूय सहजया तुल्य-

कालमा विर्भवन्त्या लक्ष्म्या श्रिया उदयरागशोभया ना-

रायणोर: स्थलतुलिते गगनतले हारसदृशतारोपसेव्ये संनिध-

त्
ते । अन्यतेजांसि चन्द्रादिप्रकाशान् आश्चर्यस्य चिन्तनीयस्य

कोष्णवारिसृवृष्टिकर्मणः आकर: द्युमणिरिवेत्यर्थः । आत्मरूपे

ऽभ्युपास्ये तदनुगुणतया अस्यार्थो योज्यते । संसारसागरग-
र्मा

र्भा
त् सोपाधित्वेन प्रादुर्भूय नित्यसिद्धया सत्यज्ञानानन्द-

स्वरूपया संपदा सह कदाचिदप्यविरहित एवेत्यर्थ: । 'स्व

भावोऽन्यविपर्ययः' इत्युक्तस्वरूपस्यानपायात् कर्तृत्वादेश्वा-
चा-
ध्यस्तत्वात् । सपदि अचिन्तनीयमित्यनिर्वचनीयमायावशात्,

न तु कर्मपारतन्त्र्यादिति व्यज्यते । नीले पुण्यपापाभ्यां मलिने

अथवा रलयोरभेदात् नीरे जले इति व्यधिकरणसप्तमी ।

उरः स्थलशब्देन उदरं लक्ष्यते, 'आकाशमुदरम्' इति श्रुतेः

भगवदुदरभूते नभसि ब्रह्माण्डभाण्डगर्ते इत्यर्थः । हारतानां

सततदुःखभाजनतया हेति विपादद्योतके शब्दे रतानां वैषयि.
-
कसुखस्याभिमानिकत्वात् दुःखस्यैव स्वभावत्वात् हारतत्वो
-
क्ति: । आरोपेण अहमाद्यध्यासेन सेध्व्ये व्यवहारगोचरीभूते

'मिथ्याज्ञानानिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेद-
८२