This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
संभूयाम्भोधिमध्यात्सपछि सहजया यः श्रिया संनिधन्ते
मौले नारायणोर: स्थलगगनतले हारतारोपसेव्ये ।
आशाः सर्वाः प्रकाशा विदधदपिदधञ्चात्मभासान्यतेजां-
स्याश्चर्यस्या करोनोमणिरिवमणिःकौस्तुभः सोऽस्तुभूत्यै।
 
८१
 
संभूय जनित्वा अम्भोधिमध्यात समुद्रगर्भात् । सपदीत्य-
चिन्त्याविर्भाव द्योतयति । सहजया, तस्या अप्यमृतमथन-
काले स्वेन सह जातत्वात् सोदर्यत्वम् । सदा श्रिया मङ्गल-
देवतया सद्देत्यायाति । संनिधत्ते सदा अवतिष्ठते । नीले
असितवर्णे हारतारोपसेव्ये ताराभिर्नक्षत्रैरिव मुक्तावलीभिराश्र-
पणीये । नारायणोर:स्थलगगनतले शेषशायिनो विपुलाय-
तत्वादाकाशतुल्ये वक्षसि । आशाः दिश: । प्रकाशा:
प्रकर्षेण व्यक्तरूपाः, प्रकाशशब्दो धर्मिणि धर्मे च वर्तते ।
'श्रुतप्रकाशं यशसा प्रकाश: ' इति 'तिमिरनिकरमुद्य-
अन्दवः प्राक् प्रकाश: ' इति च प्रयोगात् । विदधत्
पूर्वन् । अपिदधत् तिरस्कुर्वन् । आत्मभासा स्वस्य तेजसा
अन्यतेजांसि आदित्यादिप्रभाः । आश्चर्यस्य विस्मयजननस्य
कर्मण: अमृतवर्षणादे: । आकर: उत्पत्तिस्थानम् । 'किं
•ाम्रो वा पितुरयममृतवर्षी कौस्तुभमणिरिव हरेर्हृदयमा-
हायति' इति हर्षोक्तेः । कौस्तुभः तदाख्यया ख्यातः ।
 
6