This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
संभूयाम्भोधिमध्यात्सपछिदि सहजया यः श्रिया संनिधन्त्ते

मौले नारायणोर: स्थलगगनतले हारतारोपसेव्ये ।

आशाः सर्वाः प्रकाशा विदधदपिदधञ्च्चात्मभासान्यतेजां-

स्याश्चर्यस्या करोनोद्युमणिरिवमणिःकौस्तुभः सोऽस्तुभूत्यै।
 
८१
 

 
संभूय जनित्वा अम्भोधिमध्यात् समुद्रगर्भात् । सपदीत्य-

चिन्त्याविर्भावं द्योतयति । सहजया, तस्या अप्यमृतमथन-

काले स्वेन सह जातत्वात् सोदर्यत्वम् । सदा श्रिया मङ्गल-

देवतया सद्देहेत्यायाति । संनिधत्ते सदा अवतिष्ठते । नीले

असितवर्णे हारतारोपसेव्ये ताराभिर्नक्षत्रैरिव मुक्तावलीभिराश्र-

णीये । नारायणोर:स्थलगगनतले शेषशायिनो विपुलाय-

तत्वादाकाशतुल्ये वक्षसि । आशाः दिश: । प्रकाशा:

प्रकर्षेण व्यक्तरूपाः, प्रकाशशब्दो धर्मिणि धर्मे च वर्तते ।

'श्रुतप्रकाशं यशसा प्रकाश: ' इति 'तिमिरनिकरमुद्य-

न्नै
न्दवः प्राक् प्रकाश: ' इति च प्रयोगात् । विदधत्
पू

कु
र्वन् । अपिदधत् तिरस्कुर्वन् । आत्मभासा स्वस्य तेजसा

अन्यतेजांसि आदित्यादिप्रभाः । आश्चर्यस्य विस्मयजननस्य

कर्मण: अमृतवर्षणादे: । आकर: उत्पत्तिस्थानम् । 'किं
•ा

ना
म्रोनो वा पितुरयममृतवर्षी कौस्तुभमणिरिव हरेर्हृदयमा-
हा

ह्लाद
यति' इति हर्षोक्तेः । कौस्तुभः तदाख्यया ख्यातः ।
 
6