This page has not been fully proofread.

विष्णुपादादि-
वत्सः पुत्र इव दयितः स्नेहभूमि: 'दक्षिणस्तनाद्धर्म: '
इति भागवतोक्तेः दक्षिणस्तनसमीपवर्तित्वात् श्रीवत्सस्य त-
त्स्थान वासनाच्च श्रिय इति भावः । नित्यम् उच्चैः श्रियं सर्वदा
निरतिशयां संपदं भगवदनुभूतिलक्षणां विधेयात् कुर्यात् इत्या-
शीर्लिङ् । अत्र श्री - शब्दस्य बहुश आवृत्तावपि न कथितपद-
त्वदोषप्रसङ्गः । संबन्धिभेदादर्थभेदस्य दर्शितत्वात् लाटानुप्रा-
सत्वेन चमत्कारकारितेन 'द्विपानामिव पुण्डरीको राज्ञाम-
जय्योऽजनि पुण्डरीक: ' 'शान्ते पिताहृतपुण्डरीकोऽयम् '
'पुण्डरीकाक्षमिवाश्रिता श्रीः इत्यादि महाकविप्रयोगात् ।
अत्र च श्रीपतेः संबन्धी श्रीवत्सनामा स्वयं श्रीमान् कौस्तु-
भश्रीप्रतानैराण्यायितः श्रियो दयितश्च तस्येत्यर्थः । सर्वतः
श्रीमयानामस्माकं श्रीविधाने कोऽतिभारः इति तात्पर्यात् ।
लाटानुप्रासे अर्थान्तरसंक्रमितवाच्ये हि तस्यानुवाद्यत्वेन च
कथितपदस्य गुणत्वकथनाच्च । अत्रोपमा उत्प्रेक्षा च अलं-
कारः ॥ २९ ॥
 
८०
 
'श्रीवत्ससंस्थानधानेऽन्ते च समाश्रितम् । प्रधानं बुद्धिरध्यास्ते
गदारूपेण माधवम्' इति वचनात् प्रधानतत्त्वात्मक श्रीवत्समु-
पास्य, इदानीम् 'आत्मानमस्य च जगतो निर्लेपं गुणामलम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान्हरिः' इति वचनातू
आत्मतत्त्वात्मना अनुसंधेयं कौस्तुभमणिराजमुपास्ते